________________ 108 शोभनस्तुति-वृत्तिमाला (4) दे० व्या०-कृतनतीति / हे मानव ! त्वं तं सुपार्वं सुचिरं-प्रभूतकालं यथा स्यात् तथा स्मरस्मृतिगोचरीकुरु इत्यन्वयः / ‘स्मृ चिन्तायाम्' धातुः / ‘स्मर' इति क्रियापदम् / कः कर्ता ? / त्वम् / कं कर्मतापन्नम् ? | सुपार्श्वम् / किविशिष्टं सुपार्थम् ? | शस्तं-श्लाघनीयम् / किं कृत्वा ? | आधायविधाय / किम् ? / अविचलत्वम्-स्थिरत्वम् / कस्याः ? / 'चित्तवृत्तेः' चित्तस्य वृत्तिः-व्यापारः तस्याः। किंविशिष्टायाः चित्तवृत्तेः ? / 'परमदमायाः' परमः-प्रकृष्टो दमः-इन्द्रियनियन्त्रणाध्यवसायो यस्याः सा तथा / यत्तदोर्नित्याभिसम्बन्धात् यः सुपार्थः जन्तुजातं-प्राणिसमूहं कृतवान्-निष्पादयामासेत्यन्वयः / 'डुकृञ् करणे' धातुः / ‘कृतवान्' इति क्रियापदम् / कः कर्ता ? / सुपार्श्वः / किं कर्मतापन्नम् ? / 'जन्तुजातम्' जन्तूनां जातं जन्तुजातमिति विग्रहः / किंविशिष्टं जन्तुजातम् ? / 'निरस्तस्मरपरमदमायामानबाधायशः' स्मरः-कामः परे-शत्रवः मदो-मुद् मोहसंभेद: माया-कपटं मानः अहङ्कृतिः बाधा-पीडा अयशः-अपकीर्तिः, एतेषां पूर्वं 'द्वन्द्वः' / ततो निरस्तानि-ध्वस्तानि स्मरपरमदमायामानबाधायशांसि येन इति तृतीयाबहुव्रीहिः / पुनः किंविशिष्टम् ? / 'कृतनति' कृता-विहिता नतिःनमस्कारो येन तत् / यद्वा कृता नतिः-प्रणामो यस्मै तत् / परैः इति शेषः / / इति प्रथमवृत्तार्थः / / 25 / / ध० टीका-कृतनतीति / ‘कृतनति' विहितप्रणामम् / ‘कृतवान्' विहितवान् / 'यो' 'जन्तुजातं' / 'निरस्तस्मरपरमदमायामानबाधायशः' परे-शत्रवः स्मरश्च परे च मदश्च माया च मानश्च बाधा च अयशश्च ते निरस्ता-अपनीता यस्य तत् तथा तम् / 'सुचिरं' प्रभूतकालम् / ‘अविचलत्वं' एकाग्रता / 'चित्तवृत्तेः' मनसः / ‘सुपार्श्व' सुपार्श्वनामानम् / ‘स्मर' ध्याय / ‘परमदमायाः' परमो दमो यस्याः / 'मानव' ! मनुष्य ! | ‘आधाय' कृत्वा / 'शस्तं' शोभनम् / यः कृतनति जन्तुजातं इत्थंभूतं कृतवान् तं सुपाश्र्वं हे मानव ! चित्तवृत्तेः अविचलत्वं आधाय स्मरेति संबन्धः / / 25 / / अवचूरिः यः स्वामी जन्तुजातं (समूह) कृतप्रणामं विहितवान् / किंभूतम् / निरस्तानि कंदर्पवैरिमदमायामानपीडाऽयशांसि येन तम् / तं सुपार्वं देवं हे मानव, नर ! त्वं स्मर / किं कृत्वा / निश्चलत्वमाधाय / कस्याः चित्तवृत्तेर्मनोव्यापारस्य / सुचिरं प्रभूतकालम् / परमो दमो यस्याः शस्तं शोभनम् / / 25 / /