________________ श्रीसुपार्धजिनस्तुतयः 109 जिनराज्या ध्यानम्व्रजतु जिनततिः सा गोचरे चित्तवृत्तेः सदमरसहिताया वोऽधिका मानवानाम् / पदमुपरि दधाना वारिजानां व्यहार्षीत् __ सदमरसहिता या बोधिकामा नवानाम् // 2 // 26 // - मालिनी ज० वि०-व्रजत्विति / भो भव्याः ! वो-युष्माकं चित्तवृत्तेः-स्मृतेः गोचरे-विषये सा जिनततिःतीर्थकृतां श्रेणी व्रजतु-गच्छतु इति क्रियाकारकप्रयोगः / अत्र 'व्रजतु' इति क्रियापदम् / का की ? 'जिनततिः' कस्मिन् ? ‘गोचरे' / कस्याः ? 'चित्तवृत्तेः' / केषाम् ? 'वः' / बवयोरैक्यं तु प्राग्वत् / कथंभूतायाश्चित्तवृत्तेः ? ‘सदमरसहितायाः' सह दमरसेन-प्रशमरसेन वर्तन्ते ये तेषां हितायाः-हितकारिण्याः / जिनततिः कथंभूता ? ‘अधिका' उत्कृष्टा / केषाम् ? ‘मानवानां' नराणाम् / अत्र निर्धारणे षष्ठी / यत्तदोरभिसम्बन्धात् सा का ? या जिनततिः व्यहार्षीत्-विचचार / अत्रापि 'व्यहार्षीत्' इति क्रियापदम् / का की ? 'या' / किं कुर्वाणा सती ? 'दधाना' सती धारयन्ती सती / किं कर्मतापन्नम् ? 'पदं' चरणन्यासम् / कस्मिन् ? 'उपरि' अग्रभागे / केषाम् ? 'वारिजानां' सुरनिर्मितानां स्वर्णमयानां पङ्कजानाम् / कथंभूतानाम् ? 'नवानां' नवसंख्याकानां नूतनानां वा / पुनर्या कथंभूता ? 'सदमरसहिता' सद्भिः-शोभनैः अमरैः-देवैः सहिता-समन्विता | पुनः कथंभूता ? 'बोधिकामा' बोधिः-धर्मावाप्तिः तत्र कामः-इच्छा यस्याः सा तथा। स्वयमवाप्तबोधित्वादन्येषामिति गम्यते / बोधिकामेत्यनेन विशेषणेन व्यहार्षीदिति क्रियायां प्रयोजनं प्रतिपादितम् / / __ अथ समासः-जिनानां ततिर्जिनततिः 'तत्पुरुषः' / चित्तस्य वृत्तिः चित्तवृत्तिः 'तत्पुरुषः' / तस्याः चित्तवृत्तेः / दमस्य रसो दमरसः 'तत्पुरुषः' / सह दमरसेन वर्तते या सा सदमरसा 'तत्पुरुषः' / सदमरसानां हिता सदमरसहिता 'तत्पुरुषः' / तस्याः सदमरस० / सन्तश्च ते अमराश्च सदमराः 'कर्मधारयः' / सदमरैः सहिता सदमरसहिता 'तत्पुरुषः' / तस्याः सदमरसहितायाः / बोधौ कामो यस्याः सा बोधिकामा ‘बहुव्रीहिः' / / इति काव्यार्थः / / 26 / /