________________ 110 शोभनस्तुति-वृत्तिमाला (2) सि० वृ०-व्रजत्विति / भो भव्याः ! वः-युष्माकं 'चित्तवृत्तेः' चित्तस्य वृत्तिः स्मरणरूपा तस्याः चित्तवृत्तेरित्यर्थः, गोचरे-विषये सा 'जिनततिः' जिनानां-तीर्थकृतां ततिः-श्रेणिः व्रजतु-गच्छत्वित्यर्थः / 'व्रज गतौ' धातोः कर्तरि आशीःप्रेरणयोः' (सा० सू० 703) लोटि परस्मैपदे प्रथमपुरुषैकवचनं तुपू / 'अप्०' (सा० सू० 691), 'स्वरहीनं०' (सा० सू० 36) / तथा च ‘व्रजतु' इति सिद्धम् / अत्र व्रजतु' इति क्रियापदम् / का की ? / जिनततिः / कस्मिन् ? / गोचरे / कस्याः ? / चित्तवृत्तेः / केषाम् ? / वः / युष्मदः षष्ठीबहुवचने युष्माकमित्यस्य वसादेशः / बवयोरैक्यं तु प्राग्वत् / कथंभूतायाश्चित्तवृत्तेः ? / 'सदमरसहितायाः' सह दमरसेन-इन्द्रियनियन्त्रणाध्यवसायेन विद्यन्ते ये ते सदमरसाः अर्थान्मुनयस्तेषां हिताया-हितकारिण्याः / कथंभूता जिनततिः ? / अधिका-उत्कृष्टा / केषाम् ? / मानवानां-मनुष्याणाम् / अत्र निर्धारणे षष्ठी / यत्तदोरभिसम्बन्धात् सा का ? / या जिनततिः व्यहार्षीत्-विहारं कृतवतीत्यर्थः / 'हृञ् हरणे' धातोः कर्तरि सामान्ये परस्मैपदे प्रथमपुरुषैकवचनम् / 'भूते सिः' (सा० सू० 724), 'दिबादावट्' (सा० सू० 707), 'णित्पे' (सा० सू० 759) सेर्णित्वं णित्वाद् वृद्धिः / ‘सेः' (सा० सू० 736) इत्यनेन ईडागमः / 'क्विलात्पः सः कृतस्य' (सा० सू० 1.41) / तथा च 'व्यहार्षीत्' इति सिद्धम् / अत्रापि 'व्यवहार्षीत्' इति क्रियापदम् / का कर्जी ? / या / किं कुर्वाणा सती ? | दधाना सती-धारयन्ती सती / किं कर्मतापन्नम् ? / पदं-चरणन्यासम् / कस्मिन् ? / उपरि-अग्रभागे / केषाम् / वारिजानांसुरनिर्मितकमलानाम् / कथंभूतानाम् ? / नवाना-नवसंख्याकानां नवीनानां वा / उक्तं च "व्यन्तरा ब्रह्मगुप्तीना-मास्यानीव नव धुवम् / विकासिहैमपद्मानि, स्वामिनोऽग्रे विचक्रिरे // द्वयोर्द्वयोर्यधात् पादौ, चलंस्तेषु जगत्पतिः / सुराः संचारयामासुः, सप्तान्यानि पुरः पुरः // " इति शान्तिचरित्रे | पुनर्या कथंभूता ? / 'सदमरसहिता' सद्भिः-शोभनैः अमरैः-दवैः सहितासमन्विता / “अमरा निर्जरा देवा-स्त्रिदशा विबुधाः सुराः / सुपर्वाणः सुमनस-स्त्रिदिवेशा दिवौकसः // " इत्यमरसिंहः (श्लो० 13, 14) / पुनः कथंभूता ? | ‘बोधिकामा' बोधिः-धर्मावाप्तिस्तत्र कामःइच्छा यस्याः सा / तथा बोधिः 'इश्तिपौ धातुनिर्देशे' (सा० सू० 1472) इति 'बुध ज्ञाने' इति धातुस्तेन