________________ श्रीसुपार्धजिनस्तुतयः 111 च तदर्थो लक्ष्यते / तथा च बोधं-ज्ञानं कामयते सा बोधिकामा इत्यर्थान्तरम् / स्वयमवाप्तबोधित्वादन्येषामिति गम्यते / बोधिकामेत्यनेन विशेषणेन व्यहार्षीदिति क्रियायां प्रयोजनं प्रतिपादितम् / / 26 / / सौ० वृ०-व्रजत्विति / सा-प्रसिद्धा जिनततिः-तीर्थंकरराजिः वो-युष्माकं चित्तवृत्तेःमनोव्यापारस्य गोचरे-विषये व्रजतु इत्यन्वयः / 'व्रजतु' इति क्रियापदम् / का की ? | 'जिनततिः' / 'व्रजतु' गच्छतु / ‘गोचरे' विषये / कस्याः ? | 'चित्तवृत्तेः' / केषाम् ? / 'वः' युष्माकम् / किंविशिष्टा जिनततिः ? | ‘अधिका' उत्कृष्टा / केषाम् ? / 'मानवानां' मनुष्याणाम् / संसारिणां मध्ये इत्यर्थः / किंविशिष्टायाः चित्तवृत्तेः ? / दमरसः-इन्द्रियविषयदमनलक्षणो दमः तस्य रसो-हर्षः तेन सहिता ये प्राणिनः तेषां हिता-हितक: तस्याः ‘सदमरसहितायाः' / पुनः किंविशिष्टा जिनततिः ? / 'सा' / सा का ? / या जिनततिः व्यहार्षीत् इत्यन्वयः / 'व्यहार्षीत्' इति क्रियापदम् / का कर्ची ? / 'या जिनततिः' / 'व्यहार्षीत्' विचरति स्म / जिनततिः किं कुर्वती ? / 'दधाना' स्थापयन्ती / कं कर्मतापन्नम् ? / ‘पदं' चरणम् / कथम् ? / 'उपरिष्टात्' / केषाम् ? / 'वारिजानां' कमलानाम् / किंविशिष्टानां वारिजानाम् ? / 'नवानां' नवसंख्यानाम् ; नवीनानां वा / पुनः किं० जिनततिः ? / सज्जनाः (?) शोभनाः ये अमरा-देवाः तैः सहिता-संयुक्ता / पुनः किं० जिनततिः ? / बोधिः-अर्हद्धर्मावाप्तिः तं कामयति ददाति वा बोधिकामा, ते स्वयं प्राप्ताः अन्यानपि प्रापयन्ति / इति क्रियापदार्थः / / ___ अथ समासः-जिनानां ततिः जिनततिः / चित्तस्य-वृत्तिः चित्तवृत्तिः, तस्याः चित्तवृत्तेः / दमस्य रसः दमरसः, दमरसेन सहिताः सदमरसाः, सदमरसानां हितं यस्याः सा सदमरसहिता, तस्याः सदमरसहितायाः / अधिका एव अधिका / वारिणि जायन्ते इति वारिजानि, तेषां वारिजानाम् / सन्तश्च ते अमराश्च सदमराः, सदमरैः सहिता सदमरसहिता / बोधिं कामयते इति बोधिकामा / / इति द्वितीयवृत्तार्थः // 26 // (4) . दे० व्या०-व्रजत्विति / सा जिनततिः-जिनपंक्तिः बवयोरैक्यात् वः-युष्माकं चित्तवृत्तेःमानसव्यापारस्य गोचरे-विषये व्रजतु-गच्छतु इत्यन्वयः / 'व्रज गतौ' इति धातुः / 'व्रजतु' इति क्रियापदम् / का की ? / 'जिनततिः' जिनानां ततिः जिनततिः इति समासः / कस्मिन् ? / गोचरे / कस्याः ? / चित्तवृत्तेः / केषाम् ? / वः / किंविशिष्टायाः चित्तवृत्तेः? / 'सदमरसहितायाः' दमस्यउपशमस्य रसेन सह वर्तन्ते ये ते सदमरसाः अर्थात् मुनयः, तेषां हिता-हितकारिणी तस्याः / यत्तदोर्नित्याभिसम्बन्धात् या जिनततिः व्यहार्षीत्-विहारं कृतवतीति सम्बन्धः / 'हृञ् हरणे' धातुः /