________________ 112 शोभनस्तुति-वृत्तिमाला 'व्यहार्षीत्' इति क्रियापदम् ।का की ? / जिनततिः / किंविशिष्टा जिनततिः ? / अधिका-प्रकृष्टा / केषाम् ? / मानवानां-लोकानाम् / निर्धारणे षष्ठी / पुनः किंविशिष्टा ? / 'सदमरसहिता' सन्तःशोभमाना ये अमरा-देवाः तैः सहिता-संयुक्ता / तदुक्तम् “जघन्यतः कोटिसङ्ख्यास्त्वां सेवन्ते सुरासुराः” (वीतरागस्तोत्रे प्र० 4, श्लो० 14) इति / पुनः किंविशिष्टा ? 'वोधिकामा' 'बुध ज्ञाने' तेन च तदर्थो लक्ष्यते / तथा च बोधः-ज्ञानं कामयते सा तथा / स्वयमवाप्तवोधित्वात् परेषां बोधिः-धर्मप्रदानं तत्र कामो-वाञ्छा यस्याः सा तथेति वा / किं कुर्वाणा जिनततिः ? / दधाना / कम् ? / पदम्-चलनम् / कस्मिन् ? / उपरि / केषाम् ? / वारिजानां-कमलानाम्, मार्गे सुवर्णकमलोपरि चरणधारणात् / किं विशिष्टानां वारिजानाम् ? / नवानाम्-नूतनानाम् / सद्योरचितानामितियावत् / / इति द्वितीयवृतार्थः / / 26 / / ___ध० टीका-व्रजत्विति / 'व्रजतु' गच्छतु / 'जिनततिः' जिनावली / 'सा' / ‘गोचरे' विषये / 'चित्तवृत्तेः' स्मृतेः / 'सदमरसहितायाः' सह दमरसेन वर्तन्ते ये तेषां हितायाः / 'वो' युष्माकम् / 'अधिका मानवानां' उत्कृष्टा नृणाम् / निर्धारणे षष्ठी / ‘पदं' चरणक्षेपम् / उपरि' अग्रभागे / 'दधाना' धारयन्ती / 'वारिजानां' अरविन्दानाम् / 'व्यहार्षीत्' विचचार / 'सदमरसहिता' सद्भिः-शोभनैः अमरैः सहितासमेता / 'या' / 'बोधिकामा' बोधिः-धर्मावाप्तिस्तत्र कामः इच्छा यस्याः सा / स्वयमवाप्तबोधित्वादन्येषामिति गम्यते / ‘नवानां' नवत्वसंख्यावताम् / नूतनानां वा / या वोधिकामा व्यहार्षीत् सा जिनततिः वः चित्तवृत्तेः गोचरे व्रजतु इति योगः / / 26 / / (6) . अवचूरिः सा जिनानां ततिर्वो युष्माकं मनोवृत्तेर्गोचरं व्रजतु गच्छतु / किंभूतायाः / सह दमरसेन वर्तन्ते ये तेषां हितायाः / जिनततिः किंभूता | मानवानां नराणामधिका उत्कृष्टा / या जिनश्रेणिर्व्यहाीद विहारं कृतवती / किंभूता / नवानां नवसंख्यानां नूतनानां (वा) वारिजानां स्वर्णकमलानामुपरिष्टात् पदं स्थापयन्ती / सद्देवयुक्ता / बोधिकामा स्वयमवाप्तबोधित्वात् परेषां बोधिर्धर्मप्राप्तिस्तत्र कामो (वाञ्छा) यस्याः सा / / 26 //