________________ श्रीसुपार्धजिनस्तुतयः 113 जिनमतप्रशंसा दिशदुपशमसौख्यं संयतानां सदैवो__रु जिनमतमुदारं काममायामहारि ! जननमरणरीणान् वासयत् सिद्धिवासे- ऽरुजि नतम मुदाऽरं काममायामहारि // 3 // 27 // - मालिनी ज० वि०-दिशदिति / भो भव्याः ! यूयं जिनमतं-भगवच्छासनं मुदा-हर्षेण सदैव-निरंतरमेव अरंशीघ्रं काम-अत्यर्थं नमत-प्रणमत इति क्रियाकारकसंटङ्कः / अत्र ‘नमत' इति क्रियापदम् / के कर्तारः ? 'यूयम्' / किं कर्मतापन्नम् ? 'जिनमतम्' / कया ? 'मुदा' / कथम् ? 'सदैव' / पुनः कथम् ? 'अरम्' / पुनः कथम् ? 'काम' अत्यर्थम् / जिनमतं किं कुर्वत् ? 'दिशत्' ददत् / किं कर्मतापन्नम् ? 'उपशमसौख्यं' प्रशमसुखम् / केषाम् ? 'संयतानां' साधूनाम् / पुनः कथंभूतं जिनमतम् ? 'उरु' विशालम् / पुनः कथंभूतम् ? 'उदारं' महाशयम् / पुनः कथंभूतम् ? आयामहारि' आयामेन-दैर्येण हारि-चारु / जिनमतं पुनः किं कुर्वत् ? 'वासयत्' स्थापयत् / कान् ? 'जननमरणरीणान्' जन्ममृत्युभिः श्रान्तान् / कस्मिन् ? 'सिद्धिवासे' मोक्षसद्मनि / कथंभूते ? 'अरुजि' नीरोगे | पुनः कथंभूतं जिनमतम् ? 'काममायामहारि' कामः-कन्दर्पः माया-कषायविशेषः तयोर्महारि-बृहदमित्रभूतं, महाचक्रं वा / यदिवा कामश्च माया च आमो-रोगस्तान् हरतीत्येवंशीलम् / अत्र सदैव अरं काममिति क्रियाविशेषणानि दिशत् वासयदित्यादिष्वपि योज्यन्ते तथापि सम्मतमेव / / .. अथ समासः-उपशमस्य सौख्यं उपशमसौख्यं तत्पुरुषः' / जिनानां मतं जिनमतं 'तत्पुरुषः' / तज्जिन० / आयामेन हारि आयामहारि 'तत्पुरुषः' / तत् आयाम० / जननं च मरणं च जननमरणे 'इतरेतरद्वन्द्वः' / जननमरणाभ्यां रीणाः 'तत्पुरुषः' / तान् जनन० / सिद्धिरेव वासः सिद्धिवासः 'कर्मधारयः' / तस्मिन् सिद्धि० / कामश्च माया च काममाये ‘इतरेतरद्वन्द्वः' / महांश्चासौ अरिश्च महारिः 'कर्मधारयः' / काममाययोर्महारिः काम० 'तत्पुरुषः' / तत् काम० / यदिवा कामश्च माया च आमश्च काममायामाः ‘इतरेतरद्वन्द्वः / ' काममायामान् हरतीति काम० 'तत्पुरुषः' / तत् काम० / / इति काव्यार्थः / / 27 / / 1. अयं विग्रहश्चिन्तनीय इव प्रतिभाति /