________________ 42 शोभनस्तुति-वृत्तिमाला ++++++++++++++++++++++++++++++ दिशो येन स सुराजिताशः, तं सुराजिताशम् / ततं च तत तिमिरं च तततिमिरं, उद्यत् च तत् तततिमिरं च उद्यत्तततिमिरं, क्षतं उद्यत्तततिमिरं येन स क्षतोद्यत्तततिमिरः, तं क्षतोद्यत्तततिमिरम् / मदेन भासुरा मदभासुरा, न जिता अजिता, मदभासुरैः अजिता मदभासुराजिता / यमकालङ्कारः / / इति चतुर्थवृत्तार्थः / / 8 / / वैजये जयिनेशस्य, स्तुतेरर्थो लिवीकृतः / सौभाग्यसागराख्येण, सूरिणा ज्ञानसेविना // // इति अजितजिनस्तुतिः // 4 / 2 / 08 // दे० व्या०-सितशकुनीति / मानसी देवी शं-सुखं आशु-शीघ्रं यथा स्यात् तथा वितरतु-ददातु इत्यन्वयः / 'तृ प्लवनतरणयोः' इति धातुः / 'वितरतु' इति क्रियापदम् / का की ? / मानसी / किं कर्मतापन्नम् ? / शम् / किंविशिष्टा मानसी ? / 'सितशकुनिगता' सितः-शुक्लो यः शकुनिः-पतत्त्री तस्मिन् गता-आरूढा / “श्वेतः श्येतः सितः शुक्लः” इत्यभिधानचिन्तामणिः (का० 6, श्लो० 28) / पुनः किंविशिष्टा ? / इद्धा-दीप्ता / पुनः किं० ? / 'इरम्मदभा' इरम्मदो-मेघवह्निः तद्वद् भा-कान्तिर्यस्याः सा तथा / “मेघवहिरिरम्मदः” इत्यभिधानचिन्तामणिः (का० 4, श्लो०.१६७) / पुनः किंविशिष्टा ? / 'मदभासुरा' मदो-मुन्मोहसंभेदस्तेन भासुरः-शोभमाना / “मदो मुन्मोहसंभेदः” इत्यभिधानचिन्तामणिः (का० 2, श्लो० 226) / पुनः किंविशिष्टा ? / 'अजिता' अपराजिता न जिता अजिता इति ‘नञ् समासः' / अन्यैरिति शेषः / यद्वा मदेन भासुरा ये ते तथा तैः अजिता-अनभिभूतेत्येकमेव पदम् / एतेन शौर्यातिशयः सूचितः / मानसी किं कुर्वती ? / दधती / कम् ? / पविं-वज्रम् / “स्याद् वज्रं कुलिशं पविः” इत्यमरः (श्लो० 93) / पुनः किंविशिष्टं पविम् ? | ‘आत्तततिम्' आत्ता-गृहीता ततिः-विस्तारो येन स तम् / पुनः किंविशिष्टम् ? / 'सुराजिताशम्' सुष्ठु राजिताः-शोभिता आशा-दिशो येन स तम् / पुनः किंविशिष्टम् ? / 'क्षतोद्यत्तततिमिरम्' क्षतं-ध्वस्तं उद्यत्-उद्रच्छत् ततं-विस्तृतं तिमिरं-ध्वान्तं येन स तम् / / इति चतुर्थवृत्तार्थः / / 8 / / 4 / 2 / 08 / / ध० टीका-सितेति / 'सितशकुनिगता' सितशकुनिः-हंसस्तत्र गता-अधिरूढा / 'आशु'शीघ्रम् / 'मानसी' मानस्याख्या देवता / 'इद्धात्ततति' इद्धा-दीप्ता आत्ता-गृहीता ततिः-विस्तारो-येन तम् / 'इरमदभा' इरंमदः-जलदाग्निः तद्वद् भा-दीप्तिर्यस्याः सा / 'सुराजिताशं' सुष्ठु राजिता आशा-दिशो येन