________________ श्रीअजितजिनस्तुतयः तम् / 'वितरतु' ददातु | ‘दधती' धारयन्ती / 'पविं' वज्रम् / 'क्षतोद्यत्तततिमिरं' हतोत्कटान्धकारं येन तम् / ‘मदभासुराजिता' मदभासुरै-दर्परौद्रैरजिता-अनभिभूता / 'शं' सुखम् / पविं दधती आशु मानसी शं वितरतु इति संबन्धः / / 8 / / 4 / 2 / 08 / / अवचूरिः हंसारूढा मानसी देवी पविं वज्रं दधती शं सुखं प्रवितरतु / पविं किंभूतम् / इद्धा दीप्ता आत्ता गृहीता ततिर्विस्तारो येन तत् तथा / इरंमदो जलदाग्निस्तद्वत् कान्तिर्यस्याः सा | सुष्ठु शोभिता आशा दिशो येन / क्षतं विनष्टमुद्यदुद्रच्छत् ततं विस्तीर्णं ध्वान्तं यस्मात् तत् तथा / देवी दर्पोक्षुरैरपराभूता / / 8 / / 4 / 2/08 //