________________ श्रीअजितजिनस्तुतयः कथंभूतम् ? / 'इद्धात्तततिम्' इदा-दीप्ता आत्ता-गृहीता ततिः-विस्तारो येन स तथा तम् / मानसी कीशी ? / 'सितशकुनिगता' सितः-श्वेतः यः शकुनिः-पक्षी, “विहगो विहंगम-खगौ पत[तं]गो विहंगः, शकुनिः शकुन्ति-शकुनौ वि-वयः-शकुन्तः” इति हैमः (का० 4, श्लो० 382), अर्थात् हंसः, न वकादि: तत्रैवास्य शब्दस्य रूढत्वात् तत्र गता-प्राप्ता, हंसारूढेत्यर्थः / पुनः कथंभूता ? / 'इरम्मदभा' इरम्मदोवर्षाग्निः तद्वत् भा-दीप्तिः यस्याः सा इरम्मदभा / “मेघवहिरिरम्मदः” इति हैमः (का० 4, श्लो० 167) / 'उग्रंपश्येरम्मद [पाणिन्धमाश्च]' (पा० अ० 3, पा० 2, सू० 37) इति निपातः / “इरा भूवाक्सुराप्सु स्यात्” इत्यमरः (श्लो० 2687) / पुनः कीदृशी ? | ‘मदभासुराजिता' मदेन-दर्पण भासुरा-रुद्राः तैः न जिता अजिता-अनभिभूतेत्यर्थः / अथवा मदेन-अहंकारेण भासुरः-शोभनशीला, मानिनीनां प्रायो मानस्यापि रम्यत्वादिति भावः / पुष्पिताग्राच्छन्दः / 'अयुजि नयुगरेफतो यकारो युजि च नजौ जरगाश्च पुष्पिताग्रा' इति तल्लक्षणम् / / 8 / / इति पादसाहश्रीअकब्बरसूर्यसहस्रनामाध्यापकश्रीशत्रुञ्जयतीर्थकरमोचनाद्यनेकसुकृतविधायकमहामहोपाध्यायश्रीभानुचन्द्रगणिशिष्याष्टोत्तरशतावधानसाधनप्रमुदितपादसाहश्रीअकब्बरप्रदत्तषुस्पुहमापराभिधानमहोपध्यायश्रीसिद्धिचन्द्रगणिविरचितायां शोभनस्तुतिवृत्तौ श्रीअजितस्तुतिवृत्तिः।।४।२।०८ / / . सौ० वृ०-सितशकुनीति / मानसी शं-सुखं वितरतु इत्यन्वयः / ‘वितरतु' इति क्रियापदम् / का की ? / 'मानसी' देवी / ‘वितरतु' / किं कर्मतापन्नम् ? / 'शं' सुखम् / कथम् ? / 'आशु' शीघ्रम् / किंविशिष्टा मानसी ? / सितो-धवलः शकुनिः-पक्षी राजहंस इत्यर्थः, तत्र गता-स्थिता ('सितशकुनिगता') / पुनः किंविशिष्टा मानसी ? / ‘इद्धा' दीप्ता / पुनः किंविशिष्टा मानसी ? / इरम्मदोमेघवह्निः तद्वद् भा-कान्तिर्यस्याः सा 'इरम्मदभा' / पुनः किंविशिष्टा मानसी ? / मदेन-दर्पण भासुराःदीप्ता ये देवाः तैः अजिता-अनभिभूता ‘मदभासुराजिता' / मानसी किं कुर्वती ? / 'दधती' धारयन्ती / किं कर्मतापन्नम् ? / 'पविं' वज्रम् / किंविशिष्टं पविम् ? आत्ता-गृहीता ततिः-विस्तारो येन स आत्तततिः तं 'आत्तततिम्' / पुनः किंविशिष्टं पविम् ? / सुष्ठु-शोभनं यथा स्यात् तथा राजिताः-भ्राजिताः आशादिशो येन स सुराजिताशः तं 'सुराजिताशम्' / पुनः किं० पविम् ?।क्षतं-गतं उद्यत्-उद्गच्छत् ततं-विस्तीर्ण तिमिरं-ध्वान्तं-तमो येन स क्षतोद्यत्तततिमिरः तं 'क्षतो०तिमिरम्' / “मेघवहिरिरम्मदः” इति हैमः (का० 4, श्लो० 167) / “शं सुखे बलवत् सुष्ठु” इति हैमः (का० 6, श्लो० 171) / / इति पदार्थः / / अथ समासः-सितश्चासौ शकुनिश्च सितशकुनिः, सितशकुनौ गता सितशकुनिगता / आत्ता ततिर्येन स आत्तततिः, तं आत्तततिम् / इरम्मदवद् भा यस्याः सा इरम्मदभा / सुष्ठु राजिता आशा