________________ 40 शोभनस्तुति-वृत्तिमाला तम् / अत एव पुनः कथंभूतम् ? 'सुराजिताशम्' सुष्ठु राजिताः-शोभिता आशा-दिशो येन स तथा तम् / पुनः कथं० ? -- इद्धात्तततिम्' इद्धा-दीप्ता आत्ता-गृहीता ततिः-विस्तारो येन स तथा तम् / मानसी कथंभूता ? 'सितशकुनिगता' सितः-श्वेतः शकुनिः-पक्षी हंसः, न बकादिः, तत्रैवास्य शब्दस्य रूढेः, तत्र गता-प्राप्ता, हंसारूढेति हृदयम् / पुनः कथंभूता ? 'इरम्मदभा' / इरम्मदो-जलदाग्निः / “मेघवहिरिरम्मदः” . इत्यभिधानचिन्तामणिवचनात् (का०४, श्लो० 167) / तद्वत् भा-दीप्तिर्यस्याः सा तथा | पुनः कथं० ? 'मदभासुराजिता' मदेन-दर्पण भासुरा-रुद्रास्तैरजिता-अनभिभूता / / अथ समासः-सितश्चासौ शकुनिश्च सित० 'कर्मधारयः' / सितशकुनौ गता सित० 'तत्पुरुषः' / इद्धा चासौ आत्ता च इद्धात्ता 'कर्मधारयः' / इद्धात्ता ततिर्येन स इद्धा० 'तत्पुरुषः' / तमिद्धात्त० ... इरम्मदवद् भा यस्याः सा इरम्मदभा 'बहुव्रीहिः' | सुष्ठुराजिता सुराजिता 'तत्पुरुषः' / सुराजिता आशा येन स सुरा० 'बहुव्रीहिः' / तं सुरा० / ततं च तत् तिमिरं च तत० 'कर्मधारयः' / उद्यच्च तत् तततिमिरं च उद्य० 'कर्मधारयः' / क्षतं उद्यत्तततमिरं येन स क्षतोद्य० 'बहुव्रीहिः' / तं क्षतोद्य० / मदेन भासुरा मदभासुरा 'तत्पुरुषः' / न जिता अजिता 'तत्पुरुषः' / मदभासुरैरजिता मदभा० 'तत्पुरुषः' / / इति काव्यार्थः / / 8 / / // इति श्रीशोभनस्तुतिवृत्तौ श्रीअजितजिनस्तुतिवृत्तिः / / 4 / 2 / 08 // . सि० वृ०-सितशकुनीति / मानसी-मानसीदेवी शं-सुखं आशु-शीघ्रं वितरतु-ददातु इत्यर्थः / विपूर्वक 'तृ प्लवनतरणयोः' इति धातोः ‘आशीःप्रेरणयोः' (सा० सू० 703.) कर्तरि परस्मैपदे प्रथमपुरुषैकवचनम् / तृ अग्रे तुप् ‘अप् कर्तरि' (सा० सू० 691) इत्यव्, 'गुणः' (सा० सू० 692) इति गुणः / ‘स्वरहीनम्०' (सा० सू० 36) इति क्रियानिष्पत्तिप्रकारः / अत्र ‘वितरतु' इति क्रियापदम् / का की ? / मानसी / किं कर्मतापन्नम् ? / शम् / कथम् ? / आशु / केषाम् ? इत्याकाङ्क्षायां तु भव्यानां युष्माकं अस्माकं वा इत्यादिकमध्याहृत्य ज्ञेयम् / मानसी किं कुर्वती ? / दधती-धारयन्ती / किं कर्म ? / पविं-वज्रम् / “वजं त्वशनि दिनी स्वरुः / शतकोटिः पविः शंवः” (का० 2, श्लो० 94) इति हैमः / “दम्भोलिः (ह्रादिनी ?) वज्रमस्त्री स्यात्, कुलिशं भिदुरं पविः” इत्यमरः (श्लो० 93) कीदृशं पविम् ? / 'क्षतोद्यत्तततिमिरम्' क्षतं-ध्वस्तं उद्यत्-उद्गच्छत् तच्च ततं-विस्तीर्णं तिमिरं-अन्धकारो येन स तथा तम् / अत एव पुनः कीदृशम् ? / 'सुराजिताशम्' सुष्ठुराजिताः-शोभिताः प्रकाशिता वा आशादिशो येन स तथा तम् / “काष्ठाऽऽशा दिक् हरित् ककुप्” इति हैमः (का०२,श्लो०८०)।आशाशब्दस्य 'स्त्रियाः पुंवद्राषितपुंस्कत्वात्' (पा० अ० 6, पा० 3, सू० 34) पुंवद्भावेन च स्त्रीप्रत्ययलोपः / पुनः