________________ श्रीअजितजिनस्तुतयः पदे' अन्त्ये स्थाने लोकान्ते इत्यर्थः / 'हे' इत्यामन्त्रणे / जिनमत !' सर्वज्ञागम ! / 'विततापवर्गवीथीगमनययो !' वितता-विस्तृता या अपवर्गवीथी-मोक्षपदवी तत्र गमनं-यानं तस्मिन् सुखप्रापकत्वात् ययोतुरङ्गम ! / 'गततान्ति' अपेतग्लानि यथा भवत्येवम् / 'मे' मह्यम् / ‘अपदेहे' अपगता देहाः-शरीराणि यत्र तस्मिन् / हे जिनमत ! अन्तिमे पदे वसतिं मे गततान्ति प्रवितरेति सम्बन्धः / / 7 / / अवचूरिः अन्तिमे मोक्षलक्षणे पदे हे जिनमत ! मे मम वासं देहि / हे गम ! हे सदृशपाठ, नया निगमादयस्तैोगः संबन्धस्तेन तत विस्तीर्ण ! विपुलशिवमार्गगमने ययो अश्व ! / 'ययुरश्वोऽश्वमेधीयः' इति वचनात् / 'तमोऽवग्लानौ' इति धातोस्तान्तिग्लानिः / आपदित्यर्थः / गततान्ति अपगतग्लानि यथा स्यात् / किंभूते पदे / अपदेहे देहमुक्ते / / 7 / / मानसीदेव्याः प्रार्थनासितशकुनिगताऽऽशु मानसीद्धा ऽऽत्तततिमिरम्मदभासुराजिताशम् / वितरतु दधती पविं क्षतोद्यत् तततिमिरं मदभासुराजिता शम् // 4 // 8 // - पुष्पि० (1) ज० वि०-सितशकुनीति / मानसी-मानस्याख्या देवी शं-सुखं वितरतु-सम्पादयतु इति क्रियाकारकसम्बन्धघटना / तत्र ‘वितरतु' इति क्रियापदम् / का की ? 'मानसी' / किं कर्मतापन्नम् ? 'शं' सुखम् / कथम् ? 'आशु' शीघ्रम् / अत्र केषामित्याकाङ्क्षायां तु भव्यानां युष्माकं वाऽस्माकं वेत्यादिकमध्याहृत्य ज्ञेयम् / मानसी किं कुर्वती ? 'दधती' धारयन्ती / किं कर्मतापन्नम् ? 'पविं' वज्रम् / कथंभूतं पविम् ? 'क्षयोद्यत्तततिमिरम्' क्षतं-ध्वंसितं उद्यत्-उद्गच्छत् ततं-विस्तीर्णं तिमिरं-अन्धकारो येन स तथा 1. एतद् श्रीअभिधानचिन्तामणी (4 / 308) 2. ०मदभा सुराजिताशम्' इत्यपि पदच्छेदः / . 3. भासुराऽजिता०' इत्यपि पाठः /