________________ 38 शोभनस्तुति-वृत्तिमाला कः कर्ता ? / त्वम् / 'प्रवितर' प्रकर्षण दद / कां कर्मतापन्नाम् ? / 'वसतिं' स्थानम् / कस्मिन् ? | 'अन्तिमे पदे' मोक्षस्थाने / कस्मै ? / 'मे' मह्यम् / कथंभूते अन्तिमे पदे ? / 'अपदेहे' गतशरीरे / / इति पदार्थः / / ___ अथ समासः-त्रयाणां लोकानां समाहारस्त्रिलोकं, त्रिलोकस्य बन्धुः त्रिलोकबन्धुः, तस्य सं० हे त्रिलोकवन्धो ! / गमाश्च नयाश्च गमनयाः, गमनयानां योगाः गमनययोगाः, गमनययोगैः ततं गमनययोगततं, तस्य सं० हे गमनययोगतत ! / अन्ते भवः अन्तिमः, तस्मिन् अन्तिमे / जिनानां मतं जिनमतं, तस्य सं० हे जिनमत ! / अपवर्गवीथी अपवर्गस्य वीथी, वितता चासौ अपवर्गवीथी च विततापवर्गवीथी, विततापवर्गवीथ्यां गमनं विततापवर्गवीथीगमनं, विततापवर्गवीथीगमनें ययुरिव ययुः विततापर्गवीथीगमनययुः, तस्य सं० हे विततापवर्गवीथीगमनययो ! / गता तान्तिर्यस्मात् तत् गततान्ति यथा स्यात् तथा / अपगता देहाः कार्मणादयो यस्मिन् तत् अपदेहं, तस्मिन् अपदेहे / “ययुरश्वोऽश्वमेधीयः" इति हैमः (का० 4, श्लो० 309) / / इति तृतीयवृत्तार्थः / / 7 / / (4) दे० व्या०-प्रवितरेति / हे जिनमत ! त्वं मे-मम अन्तिमे-सर्वोत्कृष्ट पदे-स्थाने वसति-निवासं प्रवितर-प्रकर्षण देहीत्यन्वयः / तृप्लवनतरणयोः' इति धातुः / प्रवितर' इति क्रियापदम् / कः कर्ता ? | त्वम् / कां कर्मतापन्नाम् ? / वसतिम् / कस्मिन् ? / पदे / किंविशिष्टे ? | ‘अन्तिमे' मोक्षे इति निष्कर्षः / पुनः किंविशिष्टे ? | ‘अपदेहे' अपगतो देहः-शरीरं यत्र तत् तस्मिन्, मोक्षे शरीराभावात् / 'त्रिलोकबन्धो !' इति / त्रिलोकस्य बन्धुरिव बन्धुः यः स तस्यामन्त्रणम्, हितोपदेशकत्वात् / ‘गमनययोगतत !' इति / गमाः-सदृशपाठाः, नयाः-नैगमादयः पूर्वं 'द्वन्द्वः', तेषां योगः-सम्बन्धः, तेन ततो-विस्तीर्णो यः स तस्यामन्त्रणम् / 'विततापवर्गवीथीगमनययो !' इति वितता-विस्तीर्णा या अपवर्गवीथी-मोक्षमार्गस्तत्र गमने ययुरिव ययुर्यः स तस्यामन्त्रणम् “ययुरश्वोऽश्वमेधीयः” इत्यभिधानचिन्तामणिः (का० 4, श्लो० 309) / यथा तुरङ्गमः स्वस्वामिनः समीहितपदं नयति तथाऽयं सिद्धान्तोऽपि स्वाध्येतुः मोक्षं प्रापयतीत्यभिप्रायः / एतानि सर्वाण्यपि जिनमतस्य सम्बोधनपदानि / 'गततान्ति' इति ‘तमुच् ग्लानौ' इति धातोर्गततान्तीति अपेतग्लानिर्यथा स्यात् तथेति क्रियाविशेषणम् / / इति तृतीयवृत्तार्थः / / 7 / / ध० टीका-प्रवितरेति / प्रवितर दिश / 'वसतिं' आवासम् / त्रिलोकबन्धो!' जगत्त्रयीबान्धव ! / 'गमनययोगतत !' गमाः-सदृशपाठाः, नया-नैगमादयस्तैर्योगः-सम्वन्धः तेन तत-विस्तीर्ण ! / 'अन्तिमे 1. दोषाऽऽविष्टोऽयं प्रयोगः, 'देहि' इत्यत्र संभाव्यते /