________________ श्रीअजितजिनस्तुतयः (2) सि० वृ०-प्रवितरेति / हे जिनमत !-तीर्थंकरागम ! त्वं मे-मम अन्तिमे पदे-चतुर्दशरज्जुप्रमाणस्य लोकस्यान्ते स्थाने-मोक्षे इत्यर्थः, गततान्ति-अपगतग्लानि यथा स्यात् तथा वसतिं-वासं प्रवितरप्रकर्षणार्पयेत्यर्थः / प्रपूर्वक तृप्लवनतरणयोः' इति धातोः ‘आशी:प्रेरणयोः (सा० सू०७०३), कर्तरि परस्मैपदे मध्यमपुरुषैकवचनम् / तृ अग्रे हिः ‘अप्' 'गुणः' (सा० सू० 691-692), 'अतः' (सा० सू० 705) इति हेर्लुक्, 'स्वरहीनम्०' (सा० सू० 36) / तथा च प्रवितर इति क्रिया निष्पन्ना / अत्र 'प्रवितर' इति क्रियापदम् / कः कर्ता ? | त्वम् / कां कर्मतापन्नाम् ? / वसतिम् / “वसतिः स्थानवेश्मनोः” (वसती रात्रिवेश्मनोः ?) इत्यमरः (श्लो० 2468) / कस्मिन् ? / पदे-स्थाने / “पदं व्यवसितत्राणस्थानलक्ष्मांघ्रिवस्तुषु” इत्यमरः (श्लो० 2521) / कस्य ? / मे-मम | कथम् ? / गततान्ति / कीदृशे पदे ? | 'अपदेहे' अपगतो देह:-कायो यस्मिन स तथा तस्मिन् इति 'बहुव्रीहिः' / देहस्यापि दुःखान्तर्भूतत्वेन मोक्षे तदभावादिति भावः / “नित्यानन्दसुखाभिव्यक्तिः” इति श्रुतेः / अपराणि सर्वाणि जिनमतस्य सम्वोधनानि / तेषां व्याख्या त्वेवम्-'हे त्रिलोकवन्धो' ! त्रयश्च ते लोकाश्च-स्वर्गमृत्यु (मर्त्य ?)पाताललक्षणाः तेषां बन्धुरिव वन्धुस्त्रिलोकबन्धुः, तस्य सम्बो० हे त्रिलोकवन्धो ! / हे ‘गमनययोगतत' ! गमाः-सदृशंपाठाः, नया-नैगमसंग्रहादयः, गमाश्च ते नयाश्च गमनयाः ‘इतरेतरद्वन्द्वः', तेषां योगः-सम्बन्धः, तेन ततो-विस्तीर्णः, तस्य सम्बोधनं हे गमनययोगतत ! / “गमः सदृशपाठे स्याद्, गमस्तु गमने स्मृतः” इति नानार्थः / हे 'विततापवर्गवीथीगमनययो' वितता-विस्तृता या अपवर्गवीथी अपवर्गस्य-मोक्षस्य वीथी-वर्त्म तत्र गमनं-यानं तत्र ययुरिव ययुः-अश्वः, तस्य सं० हे विततापवर्ग० | “ययुरश्वोऽश्वमेधीयः” इति हैमः (का० 4, श्लो० 309) / यथा ययुना स्वस्वामी समीहितं पदं नीयते * तथा जिनागमेनापि श्रद्धाध्ययनाध्यापनश्रवणासक्तो जनो मोक्षं प्राप्यत इति भावः / “वीथी वर्त्मनि पंक्ती च, गृहाङ्गे नाट्यरूपके” इति हैमानेकार्थः / / 7 / / ___ (3) सौ० वृ०-प्रवितरेति / 'हे त्रिलोकबन्धो' !-हे जगभ्रातः ! / गमाः-सदृशपाठाः-सिद्धान्तालापकाः नया नैगमादयः तेषां योगाः-सम्बन्धाः तैः ततं-विस्तीर्णं हे ‘गमनययोगतत' ! / हे 'जिनमत' ! जिनप्रवचन ! / विततो-विस्तीर्णो अपवर्गो-मोक्षः तस्य वीथी-मार्गः तत्र गमनं-प्रापणं तत्र ययुरिव ययुःअश्वमेधीयः-तुरगः शीघ्रप्रापकत्वात् हे 'विततापवर्गवीथीगमनययो' ! / गततान्ति-गतक्लमं यथा स्यात् तथा मे मां त्वं अन्तिमे पदे-मोक्षे-लोकाग्रे वसति-वासं प्रवितरेति अन्वयः / ‘प्रवितर' इति क्रियापदम् / 1. अस्योल्लेखोऽमरेऽपि (श्लो० 1558)