________________ 36 शोभनस्तुति-वृत्तिमाला जिनमतविचार:प्रवितर वसतिं त्रिलोकबन्धो ! गमनययोगततान्तिमे पदे हे। जिनमत ! विततापवर्गवीथी गमनययो ! गततान्ति मेऽपदेहे // 3 // 7 // - पुष्पि० . (1) ज० वि०-प्रवितरेति / हे जिनमत !-तीर्थंकरागम ! त्वं मे-मम अन्तिमे पदे-चतुर्दशरज्जुप्रमाणस्यं लोकस्यान्त्ये स्थाने मोक्ष इत्यर्थः, अपदेहे-अपगतशरीरे तत्र प्राप्तानां सिद्धानां देहपञ्चकस्यापगमेनोपचारात् तत्पदमप्यपदेहमेवोच्यते, तत्र वसतिं-वासं गततान्ति-अपगतग्लानि यथा स्यात् तथा, क्रियाविशेषणमेतत्, प्रवितर-प्रकर्षण देहीति क्रियाकारकान्वयः / अत्र ‘प्रवितर' इति क्रियापदम् / किं कर्तृ ? 'त्वम्' / कां कर्मतापन्नाम् ? 'वसतिम्' / कस्मिन् ? 'पदे' / कथंभूते ? 'अन्तिमे' / पुनः कथंभूते ? अपदेहे' / कस्य ? 'मे' / कथम् ? 'गततान्ति' / अपराणि सर्वाणि जिनमतस्य सम्बोधनानि / तेषां व्याख्या यथा'हे त्रिलोकवन्धो' !त्रयो लोकाः स्वर्ग-मर्त्य-पाताललक्षणास्तेषां बन्धुरिव बन्धुः, त्राणैकचिन्तापरत्वात् / तस्य सम्बोधनं हे त्रिलो० / हे ‘गमनययोगतत' ! गमाः-सदृशपाठाः नयाः-नैगमसंग्रहादयस्तैर्योगःसम्बन्धस्तेन ततं-विस्तीर्णं-विशालं, तत्सम्बो० हे गम० / हे 'विततापवर्गवीथिगमनययो' ! वितताविस्तृता याऽपवर्गवीथी-मोक्षपदवी तत्र गमनं-यानं तत्र ययुः-तुरङ्गमः तत्र सुखेन प्रापकत्वात्, तत्सम्बो० हे वित० / अत्र गततान्तीति यत् क्रियाविशेषणत्वेनाभिहितं तत् जिनमतस्य सम्बोधनं विशेषणं वाऽपि युज्यत एव / तथा द्वितीयपदस्यान्तर्वर्ती हेशब्दस्त्वाभिमुख्याभिव्यक्तये सर्वेषां सम्वोधनानामादौ योज्यते / / __ अथ समासः-त्रयश्च ते लोकाश्च त्रिलोकाः ‘कर्मधारयः' / त्रिलोकानां बन्धुस्त्रिलोकवन्धुः 'तत्पुरुषः' / तत्सम्वो० हे त्रिलो० / गमाश्च नयाश्च गमनयाः ‘इतरेतरद्वन्द्वः' / गमनयानां योगो गमन० 'तत्पुरुषः' / गमनययोगेन ततं गमन० 'तत्पुरुषः' / तत्सम्बो० हे गमन० / जिनानां मतं जिनमतम् 'तत्पुरुषः' / तत्सम्बो० हे जिन० / अपवर्गस्य वीथी अपवर्गवी० 'तत्पुरुषः' / वितता चासावपवर्गवीथी च वितता० 'कर्मधारयः' / विततापवर्गवीथ्यां गमनं विततापव० 'तत्पुरुषः' / विततापवर्गवीथीगमने ययुः विततापव० 'तत्पुरुषः' / तत्सम्बो० हे विततापव० / गता तान्तिर्यस्मात् तद् गततान्ति 'वहुव्रीहिः' / अपगतो देहो यस्मात् तद् अपदेहम् ‘बहुव्रीहिः' / तस्मिन्नपदेहे / / इति काव्यार्थः / / 7 / / 1. 'गम ! नययोग०' इत्यपि पदच्छेदः / दोषाऽऽकुलमिदम, कः कर्ता ? इति पदरचनाऽत्र घटते /