________________ श्रीअजितजिनस्तुतयः समासः / यत्तदोर्नित्याभिसम्बन्धात् यं जिननिवहं अमरपतयः-सुरेन्द्राः स्तुवन्ति-स्तुतिविषयीकुर्वन्ति इत्यन्वयः / 'स्तुवन्ति' इति क्रियापदम् / के कर्तारः ? / 'अमरपतयः' अमराणां पतयः अमरपतयः इति विग्रहः / कं कर्मतापन्नम् ? / जिननिवहम् / किं कृत्वा ? / प्रगाय-प्रकर्षण गीत्वा / प्रशब्देनात्र भक्तिश्रद्धातिशयलक्षणः प्रकर्षो द्योत्यते / कानि ? / वस्तुवन्ति-छन्दोविशेषणानि / केन ? / 'अर्तितप्ताध्वनदसुरामरवेण' अा-पीडया तप्तानां शैत्याधायकत्वेन अध्वनद इव यः सुतरां रमणीयो रवो-ध्वनिविशेषः तेन, अथवा-अर्तितप्ता इति सम्बोधनम् हे अर्तितप्ताः ! / स्तुत इति सम्वन्धः / ध्वनन्नानार्थान् ध्वनितान् कुर्वन्, असून्-प्राणान् रमयति इति असुरामः, तादृशो यो रवः स ध्वनदसुरामरवः, तेन वस्तुवन्ति-अर्थवन्ति प्रगाय इति व्याख्येयम् / किंविशिष्टा अमरपतयः ? | 'पार्श्वध्वनदसुरामरवेणवः' असुराश्च अमराश्चेति पूर्वं 'द्वन्द्वः' / ततः पार्थे-समीपे ध्वनन्तो-वाद्यमाना असुरामराणां वेणवो-वंशा येषां ते तथा / / इति द्वितीयवृत्तार्थः / / 6 / / ध० टीका-स्तुत जिननिवहमिति / 'स्तुत' प्रणुत / 'जिननिवहं' तीर्थंकरनिकरम् / तं 'अर्तितप्ताध्वनदसुरामरवेण' अा-पीडया तप्तानां शैत्याधायकतया साक्षात् अध्वनदः-मार्गनदो यः सुरामः-सुष्ठुरमणीयो रवः-शब्दस्तेन करणभूतेन / करणता चास्य प्रगायेति क्रियापेक्षया, स्तुतेतिक्रियया वा / 'वस्तुवन्ति' छन्दोजातिविशेषान् / 'यममरपतयः' यं भगवन्तं अमरपतयः-सुराधिपाः / ('प्रगाय') प्रकर्षण गीत्वा / 'पार्श्वध्वनदसुरामरवेणवः' पार्थेषु-पर्यन्तेषु ध्वनन्तः-शब्दायमाना असुराणाममराणां च वेणवः-वंशा येषां ते तथोक्ता / 'स्तुवन्ति' वन्दन्ते / अमरपतयो वस्तुवन्ति प्रगाय यं स्तुवन्ति तं जिननिवहं स्तुतेति सम्बन्धः / / 6 / / (6) अवचूरिः हे लोकाः, तं जिनवृन्दं स्तुत / यं जिनव्रजममरेन्द्राः स्तुवन्तीति संबन्धः / किं कृत्वा / अर्त्या पीडया तप्तानां शैत्याधायकतया साक्षादध्वनदो मार्गह्रदः सुरामः सुष्ठु रमणीयो यो रवः शब्दस्तेन करणभूतेन / वस्तुवन्ति छन्दोजातिविशेषवन्ति गीतानि प्रगाय गीत्वा / किंभूताः / पार्थे समीपे ध्वनन्तोऽसुरामराणां वेणवो वंशा येषां ते तथा / 'व्यत्यये लुग्वा' इति रेफस्य लुक् / / 6 / / 1. इदं सूत्रं श्रीसिद्धहेमशब्दानुशासने (1 / 3 / 56).