________________ शोभनस्तुति-वृत्तिमाला इति विश्वः / इदं हि पदं करणभूतं स्तुत प्रगायेत्युभयोः क्रिययोर्मध्ये यत्र योज्यते तत्र युक्तिमत्, अथवा अर्तितप्ताः इति संबोधनम् हे अर्तितप्ताः ! स्तुत इति संबन्धः / ध्वनन्-नानार्थान् ध्वनितान् कुर्वन् असून्-प्राणान् रामयति असुरामः तादृशो यो रवः स ध्वनदसुरामरवः तेन स्तुवन्ति अर्थवन्ति प्रगाय इति व्याख्येयम् / / 6 / / (3) सौ० वृ०-स्तुत इति / यूयं तं जिननिवहं स्तुत इत्यन्वयः / 'स्तुत' इति क्रियापदम् / के कर्तारः ? / यूयम् / 'स्तुत' प्रणुत / कं कर्मतापन्नम् ? / 'जिननिवहं' तीर्थंकरवृन्दम् / किं कृत्वा ? / 'प्रगाय' प्रकर्षण गीत्वा / कानि कर्मतापन्नानि ? / वस्तु-छन्दोविशेषः तद्वन्ति गीतानि 'वस्तुवन्ति' / केन ? / अर्तितप्ता . अा-पीडया तप्ता-वाधिता ये प्राणिनः तेषां सुखदायकत्वात् अध्वनद इव-मार्गह्रद इव सुष्ठु-शोभनः रामःरमणीयः रवः-शब्द: तेन ‘अर्तितप्ताध्वनदसुरामरवेण' / किंविशिष्टं जिननिवहम् ? / 'तं' प्रसिद्धम् | तं कम् ? अमरपतयः-सुरेन्द्रा यं जिननिवहं स्तुवन्ति इत्यन्वयः / 'स्तुवन्ति' इति क्रियापदम् / के कर्तारः ? / अमरपतयः / 'स्तुवन्ति' वन्दन्ते / कं कर्मतापन्नम् ? / 'यं जिननिवहम्' / किंविशिष्टा अमरपतयः ? | पार्श्व-समीपे ध्वनन्तः-शब्दायमानाः असुराभुवनपत्यादयः अमराः-वैमानिकादयः तेषां वेणवो-वंशाः येषां ते 'पार्श्वध्वनदसुरामरवेणवः' / तथा 'व्यत्यये लुग् वा रेफस्य लुक्' (सि० अ० 1, पा० 3, सू० 56) इति सूत्रेण विसर्गलोपः / इति पदार्थः / अथ समासः-जिनानां निवहः जिननिवहः, तं जिननिवहम् / अर्त्या तप्ताः अर्तितप्ताः, अध्वनि नदः अध्वनदः, अर्तितप्तानां अध्वनदः अर्तितप्ताध्वनदः, रमते असौ रामः, सु-शोभनो रामः सुरामः, अर्तितप्ताध्वनदवत् सुरामः अर्तितप्ताध्वनदसुरामः, अर्तितप्ताध्वनदसुरामश्चासौ रवश्च अर्तितप्ताध्वनदसुरामरवः, तेन अर्तितप्ताध्वनदसुरामरवेण / वस्तूनि विद्यन्ते येषु तानि वस्तुवन्ति / अमराणां पतयः अमरपतयः / गीयते इति गायः, प्रकर्षण गीयते इति प्रगाय[:] / असुराश्च अमराश्च असुरामराः, असुरामराणां वेणवः असुरामरवेणवः, पार्श्वे ध्वनन्तः पार्श्वध्वनन्तः, पार्श्वध्वनन्तः असुरामरवेणवो येषां ते पार्थध्वनदसुरामरवेणवः / / इति द्वितीयवृत्तार्थः / / 6 / / (4) दे० व्या०-स्तुत जिननिवहमिति / तं जिननिवहं-तीर्थंकरसमूहं यूयं स्तुत-स्तुतिगोचरी-. कुरुतेत्यन्वयः / 'स्तुञ् स्तुतौ' धातुः / ‘स्तुत' इति क्रियापदम् / लोट् परस्मैपदमध्यमपुरुषबहुवचनान्तम् / के कर्तारः ? / 'यूयम्' / कं कर्मतापन्नम् ? / 'जिननिवह' जिनानां निवहं जिननिवहम् इति