________________ श्रीअजितजिनस्तुतयः ___ अथ समासः-जिनानां निवहो जिननिवहः 'तत्पुरुषः' / तं जिन० / अा तप्ताः अर्तितप्ताः 'तत्पुरुषः' / अध्वनो नदः अध्वनदः 'तत्पुरुषः' / अर्तितप्तानामध्वनदः अर्तितप्ता० 'तत्पुरुषः' / सुष्ठु रामः सुरामः ‘तत्पुरुषः' / सुरामश्चासो रवश्च सुरामरवः ‘कर्मधारयः' / अर्तितप्ताध्वनदश्चासौ सुरामरवश्च अर्ति० 'कर्मधारयः' / तेन अर्ति० / अमराणां पतयः अमरपतयः 'तत्पुरुषः' / असुराश्च अमराश्च असुरामराः 'इतरेतरद्वन्द्वः' / असुरामराणां वेणवः असुरा० 'तत्पुरुषः' / ध्वनन्तश्च तेऽसुरामरवेणवश्च ध्वनदसुरामरवेणवः ‘कर्मधारयः' / पार्श्वे ध्वनदसुरामरवेणवो येषां ते पार्श्वध्व० ‘बहुव्रीहिः' / / इति काव्यार्थः / / 6 / / सि० वृ०-स्तुत जिननिवहमिति / भो भव्याः ! यूयं तं जिननिवहं-जिनसमूहं स्तुत-स्तुतिविषयीकुरुतेत्यर्थः / ‘ष्टुञ् स्तुतौ' इति धातोः ‘आशीः प्रेरणयोः (सा० सू० 103)' कर्तरि परस्मैपदे मध्यमपुरुषबहुवचनम् / ष्टुञ् अग्रे अप् ‘अदादेर्लुक्' (सा० सू० 880) / ‘आदेः ष्णः स्नः' (सा० सू० 748) इति षकारस्य सकारः / 'निमित्ताभावे नैमित्तिकस्याप्यभावः' इति टकारस्य तकारः / तथा च ‘स्तुत' इति सिद्धम् / अत्र ‘स्तुत' इति क्रियापदम् / के कर्तारः ? / यूयम् / कं कर्मतापन्नम् ? / जिननिवहम् / जिनानां निवहः-समूहों जिननिवहः, तं जिननिवहम् / “समूहो निवहव्यूह-सन्दोहविसरव्रजाः” इत्यमरः (श्लो० 1065) / यत्तदोः परस्परं सापेक्षत्वात् तं कम् ? / यं जिननिवहं अमरपतयः-इन्द्राः स्तुवन्ति स्तुतिविषयीकुर्वन्ति / 'ष्टुञ् स्तुतौ' अग्रे वर्तमाने अन्ति / ‘आदेः ष्णः नः' (सा० सू० 748) इति पकारस्य सकारः, ततः अप् ‘अदादेर्लुक्' (सा० सू० 880) 'नु धातोः' इत्युव् ‘स्वरहीनम्' (सा० सू० 36) / तथा च ‘स्तुवन्ति' इति सिद्धम् / अत्र ‘स्तुवन्ति' इति क्रियापदम् / के कर्तारः ? / 'अमरपतयः' अमरा-देवाः तेषां पतयः-स्वामिनः अमरपतयः / कं कर्मतापन्नम् ? / यम् / कथंभूता अमरपतयः ? ( 'पार्श्वध्वनदसुरामरवेणवः' पार्थेषु-पर्यन्तेषु ध्वनन्तः-शब्दायमानाः असुरामराणां, असुराश्च अमराश्चेति 'द्वन्द्वः', तेषां वेणवो-वंशाः येषां ते तथोक्ताः, अमरपतीनां पार्थेषु स्थिताः असुरा अमराश्च वंशान् वादयन्तीत्यर्थः / “वेणुर्वंशे नृपान्तरे” इति विश्वः / किं कृत्वा स्तुवन्ति ? / 'प्रगाय' प्रकर्षण गीत्वा / कानि ? / वस्तुवन्ति-छन्दोविशेषाणि / केन कृत्वा ? / 'अर्तितप्ताध्वनदसुरामरवेण' अर्तिः-पीडा तया तप्ताः-तापव्याकुलीभूताः पान्थादयः तेषां अध्वनदो-मार्गह्रदतुल्यः शैत्याधायकत्वात् एतादृशो यः सुरामरवः-सुष्ठु रामो-मनोज्ञः रवः-ध्वनिः तेन / "रामः पशुविशेषे स्यात, जामदग्न्ये हलायुधे / राघवे चासितश्वेत-मनोज्ञेषु च वाच्यवत् / / "