________________ शोभनस्तुति-वृत्तिमाला 'अधितष्ठौ' अधिष्ठितवान् / 'अनघनमेरुपरागं' अनघो-निरवद्यो नमेरूणां-देववृक्षविशेषाणां परागोरेणुर्यत्र तं तथोक्तम् / 'अस्तकान्त' अस्तगिरिर्मन्दरस्तद्वत् कान्तं-कमनीयं, कदाचिदस्ता उज्झिताः कान्ता योषितो येनेति भगवतो विशेषणमित्यादि / / 5 / / अवचूरिः यः स्वामी निजजन्मोत्सवेऽधितष्ठौ / किं कर्म / विराजगिर्वनैर्घनो निरन्तरः अथवा शोभमानाम्भसो घना यत्र स चासौ मेरुपरागो मेरुपरमपर्वतस्तस्य शिखराग्रम् / किंभूतम् / अनघा नमेरवो देववृक्षविशेपास्तेषां रेणुर्यत्र तत्तथा / किंभूतं शिखराग्रम् / अस्तोऽस्तगिरिस्तद्वत् कान्तं कमनीयम् / अथवा जिनविशेषणम् / अस्ता कान्ता येन तम् / / 5 / / जिनकदम्बकाभिनुतिःस्तुत जिननिवहं तमर्तितप्ता ध्वनदसुरामरवेण वस्तुवन्ति / यममरपतयः प्रगाय पार्थ ध्वनदसुरामरवेणव स्तुवन्ति // 2 // 6 // ___ - पुष्पि० ज० वि०-स्तुत जिननिवहमिति / भो भव्याः ! यूयं तं जिननिवहं-जिनसमूहं स्तुत-स्तवनविषयीकुरुतेति क्रियाकारकघटना / अत्र 'स्तुत' इति क्रियापदम् / के कर्तारः ? 'यूयम्' / कं कर्मतामापन्नम् ? 'जिननिवहम्' / यत्तदोः परस्परं सापेक्षत्वात् तं कम् ? यं अमरपतयः-इन्द्राः स्तुवन्तिस्तुतिविषयीकुर्वन्ति / अत्र ‘स्तुवन्ति' इति क्रियापदम् / के कर्तारः ? 'अमरपतयः' / कं कर्मतापन्नम् ? 'यम्' / कथंभूता अमरपतयः ? 'पार्श्वध्वनदसुरामरवेणवः' पार्थेषु-पर्यन्तेषु ध्वनन्तः-शव्दायमानाः असुराणां अमराणां च वेणवो-वंशा येषां ते तथोक्ताः / अमरपतीनां पार्थेषु स्थिता असुराः अमराश्च वंशान् वादयन्तीत्यर्थः / किं कृत्वा स्तुवन्ति ? 'प्रगाय' प्रकर्षण गीत्वा / कानि ? 'वस्तुवन्ति' छन्दोविशेषान् / केन कृत्वा ? 'अर्तितप्ताध्वनदसुरामरवेणवः' अतिः-पीडा तया तप्ताः-तापव्याकुलीभूताः पान्थादयस्तेषामध्वनदो-मार्गहृदतुल्यः शैत्याधायकत्वात् एतादृशो यः सुरामरवः-सुष्ठु रमणीयो ध्वनिस्तेन / इदं हिपदं करणभूतं स्तुत प्रगायेत्युभयोः क्रिययोर्मध्ये यत्र योज्यते तत्र युक्तिमत् / /