________________ श्रीअजितजिनस्तुतयः 1 . अथ समासः-न जितः अजितः, तं अजितम् / गर्भस्थे भगवति राज्ञा अक्षक्रीडायां मातुः अजितत्वात् अजित इति नामाजनि / विराजन्ति च तानि वनानि विराजद्वनानि, विराजद्वनैः घनः विराजद्वनघनः विराजद्वनघनश्चासौ मेरुश्च विराजद्वनघनमेरुः, विराजद्वनघनमेरुश्चासौ परागश्च विराजद्वनघनमेरुपरागः, विरा० परागस्य मस्तकं विरा० परागमस्तकं, विराज० मस्तकस्य अन्तः विरा० मस्तकान्तः, तं विरा० मस्तकान्तम् / निजस्य जननं निजजननम्, महांश्चासौ उत्सवश्च महोत्सवः, निजजननस्य महोत्सवो निजजननमहोत्सवः, तस्मिन् निजजननमहोत्सवे / अनघाश्च ते नमेरवश्च अनघनमेरवः, अनघनमेरूणां परागो यस्मिन् सः अनघनमेरुपरागः, तं अनघनमेरुपरागम् / अस्ता कान्ता येन सः अस्तकान्तः, तं अस्तकान्तं अथवा अस्तं-स्वर्णं तद्वत् कान्तो-रम्यः तं अस्तकान्तम् / “अस्तं स्वर्णसुमाम्भसः” इत्यनेकार्थः / ‘अस्तं सुवर्णे वनोपान्ते' इति व्याडिः / अत्रोपजातौ मत्तमयूर (पुष्पि-ताग्रा ?) च्छन्दसा प्रथमवृत्तार्थः / / द्वितीयान्तपदयोः यमकालङ्कारः / / 5 / / दे० व्या०-तमजितमिति / तं अजितं-अजितनाथं अहं नौमि-स्तवीमि इत्यन्वयः / 'नु स्तुतौ' धातुः / 'अभिनौमि' इति क्रियापदम् / कः कर्ता ? | अहम् / कं कर्मतापन्नम् ? / अजितम् / यत्तदोर्नित्याभिसम्बन्धात् यः अजितः निजजननमहोत्सवे विराजद्वनघनमेरुपरागमस्तकान्तं अधितष्ठौस्थितवान् / ‘ष्ठा गतिनिवृत्तौ' धातुः / 'अधितष्ठौ' इति क्रियापदम् / कः कर्ता ? / अजितः / कं कर्मतापन्नम् ? / 'विराजद्वनघनमेरुपरागमस्तकान्तम्' विराजन्ति च तानि वनानि चेति ‘कर्मधारयः' / तैः घनो-निबिडः, यद्वा विराजन्तः-शोभमाना वनघनाः-सजला मेघा यत्र, स चासौ मेरुपरागः-मेरुनामा प्रकृष्टपर्वतः तस्य मस्तकान्तं-शिखराग्रप्रदेशम् / कस्मिन् ? / 'निजजननमहोत्सवे' निजजननस्यस्वकीयप्रसूतेः महान्-प्रकृष्टो यः उत्सवः-क्षणः तस्मिन् / किंविशिष्टं विराजद्वनघनमेरुपरागमस्तकान्तम् ? / अनघनमेरुपरागम्' अनघाः-पवित्रा ये नमेरवो-देववृक्षास्तेषां परागः-पुष्परेणुः यत्र स तम् / पुनः किंविशिष्टम् ? / 'अस्तकान्तम्' अस्तगिरिवत् कान्तं-कमनीयम्, अस्ता-त्यक्ता कान्ता-ललना येनेति जिनविशेषणं वा / / इति प्रथमवृत्तार्थः / / 5 / / ध० टीका-तमजितमिति / 'तं अजितं' तं अजिताभिधानं जिनं 'अभिनौमि' अभिष्टुवे / 'यो विराजद्वनघनमेरुपरागमस्तकान्तं' यो भगवान् विराजगिर्वनैः काननैर्घनो-निरन्तरो मेरुलक्षणो यः परागः प्रधानपर्वतः तस्य मस्तकान्तं-शिखराग्रं, अथवा विराजद्वनाः-शोभमानाम्भसो घना-मेघा यस्मिन् तत् तथाभूतं मेरुसम्बन्धिनं परागं-प्रधानद्रुमं मस्तकान्तम् / 'निजजननमहोत्सवे' स्वजन्ममहामहे /