________________ शोभनस्तुति-वृत्तिमाला 1494) इत्युक्तेः इति ब्रूमः / अत एव रघौ अपि षष्ठे सर्गे अधितष्ठावित्यत्र संजीविनीकारोऽपि 'अडभ्यासव्यवायेऽपि षत्वम्' इत्येवालीलिखत् / अत्र 'अधितष्ठौ' इति क्रियापदम् / कः कर्ता ? | अजितः / कं कर्मतापन्नम् ? / 'विराजद्वनघनमेरुपरागमस्तकान्तम्' विराजन्ति-शोभनानि यानि वनानि तैर्घनो-निविडो यो मेरुलक्षणः परागः-परः-प्रकृष्टः स चासौ अगः-पर्वतः तस्य मस्तकान्तं-शिखराग्रम् / यद्वा विराजद्वनाः-शोभमानाम्भसः, “वनं कानननीरयोः” इति विश्वः, “स्यात् षण्डं काननं वनं” इति हैमः (का० 4, श्लो० 176), घनाः-मेघाः यस्मिन् / शेषं पूर्ववत् / कस्मिन् ? / 'निजजननमहोत्सवे' महांश्चासावुत्सवश्च महोत्सवः, निजजननस्य महोत्सवो निजजननमहोत्सवः, तस्मिन् निजजननमहोत्सवे / कीदृशम् ? / 'अनघनमेरुपरागम्' अनघाः-पवित्रा ये नमेरवो-देववृक्षाः तेषां परागः-पुष्परेणुर्यत्र स तथा तम् / “नमेरुः सुरपुन्नाग” इत्यमरः / पुनः कथंभूतम् ? / 'अस्तकान्तं' अस्तः-अस्तगिरिः-मन्दरः तद्वत् कान्तं-कमनीयम् / “अस्तस्तु चरमः क्ष्माभृत्” इत्यमरः (श्लो० 637) / अथवा अस्ता-उज्झिताः कान्ताःस्त्रियो येन इत्यजितजिनस्यैवेदं विशेषणम् / पुनः कीदृशम् ? / तम् / तच्छब्दस्य 'त्यादेष्टेरः स्यादौ' (सा० सू० 175) इति टेरात्वे 'अम्शसोरस्य' (सा० सू० 126) इत्यकारलोपे च अमो रूपम् / / 5 / / . (3) सौ० वृ०-तमजितमिति / यः वृषेण-धर्मेण-आत्मस्वरूपेण भाति स कर्मभिरजितो भवति / अनेन संबन्धेन आयातस्य अजितदेवस्य स्तुतिः प्रारभ्यते / तमजितमिति / अहं तं अजितं-अजिताभिधानं तीर्थंकरं [अभिनौमि] / अभिनौमि' इति क्रियापदम् / कः कर्ता ? / 'अहम्' मल्लक्षणः / अभि-त्रिकरणशुद्ध्या स्तवीमि / कं कर्मतापन्नम् ? / अजितम् / किंविशिष्टं अजितम् / 'तं' प्रसिद्धम् / तं कम् ? / यो भगवान् निजं-स्वकीयं यत् जननं-जन्म तस्य महोत्सवः तस्मिन् निजजननमहोत्सवे विराजन्तिशोभमानानि यानि वनानि भद्रशाल-सौमनस-नन्दन-पाण्डुकप्रभृतीनि तैः घनः-निचितः एतादृशो यो मेरुः परः-प्रकृष्टो यः अगः-पर्वतः तस्य मस्तकं-शिखरं तस्य अन्तः-अग्रभागः शिखराग्रं अधितष्ठौ इत्यन्वयः / 'अधितष्ठौ' इति क्रियापदम् / कः कर्ता ? / 'यः' भगवान् / 'अधितष्ठौ' अधिष्ठितवान् / कं कर्मतापन्नम् ? / विराजद्वनघनमेरुपरागमस्तकान्तम् / कस्मिन् ? / 'निजजननमहोत्सवे' स्वकीयजन्मक्षणे / किंविशिष्टं विराज०मस्तकान्तम् ? / अनघा-निरवद्या-निष्पापा नमेरवः-कल्पतरवः शालवृक्षा वा तेषां परागो-मकरन्दो यस्मिन् स अनघनमेरुपरा०, तं अनघनमेरुपरागम् / किंविशिष्टं अजितम् ? / अस्ता उज्झिताः त्यक्ताः कान्ताः-स्त्रियो येन सः अस्तकान्तः, तं 'अस्तकान्तं', पक्षे विराजद्वनाः-शोभमानाम्भसो घनाः-मेघा यत्र एतादृशो मेरुः तस्य शिखरं इति छायार्थः / इति पदार्थः /