________________ श्रीअजितजिनस्तुतयः विशेषाणां परागः-रेणुर्यत्र स तथा तम् / पुनः कथंभूतम् ? 'अस्तकान्तम्' अस्तः-अस्तगिरिः-मन्दरः तद्वत् कान्तं-कमनीयम् / यद्वा अस्ता-उज्झिताः कान्ताः-स्त्रियो येनेति अजित स्वामिन एवेदं विशेषणम् / / अथ समासः-विराजन्ति च तानि वनानि च विराज० 'कर्मधारयः' / विराजद्वनैर्घनो विराज० 'तत्पुरुषः' / परश्चासौ अगश्च परागः ‘कर्मधारयः' / मेरुश्चासौ परागश्च मेरु० 'कर्मधारयः' / विराजद्वनघनश्चासौ मेरुपरागश्च विराज० 'कर्मधारयः' / विराजद्वनघनमेरुपरागस्य मस्तकं विराज० 'तत्पुरुपः' / विराजद्वनघनमेरुपरागमस्तकस्यान्तो विराज० 'तत्पुरुषः' / तं विराज० / यद्वा विराजद् वनं येषु ते विराजद्वनाः ‘बहुव्रीहिः' / विराजद्वनाः घना यस्मिन् स विराज० 'बहुव्रीहिः' / शेषं मेर्वादिकं पूर्ववत् समस्यते / महांश्चासावुत्सवश्च महोत्सवः ‘कर्मधारयः' / जननस्य महोत्सवो जनन० 'तत्पुरुषः' / तस्मिन् जनन० / नमेरूणां परागो नमेरूप० 'तत्पुरुषः' / न विद्यतेऽघं यस्मिन् सोऽनघः ‘बहुव्रीहिः' / अनघो नमेरुपरागो यस्मिन् सोऽनघनमेरुपरागः ‘बहुव्रीहिः' / तमनघनमेरु० / अस्तवत् कान्तोऽस्तकान्तः 'तत्पुरुपः' / तमस्तकान्तम् / जिनविशेषणपक्षे तु अस्ताः कान्ता येन सोऽस्तकान्तः ‘बहुवीहिः' / तमस्तकान्तम् / / इति काव्यार्थः / / 5 / / . सि० वृ०--तमजितमभिनौमीति / अहं तं-अजितनाथं अभिनौमि-अभिष्टुवे इत्यर्थः / अभिपूर्वक 'नु स्तुतौ' धातोर्वर्तमाने कर्तरि परस्मैपदे उत्तमपुरुषैकवचनं मिप्, 'अप् कर्तरि' (सा० सू० 691), 'अदादेर्लुक्' (सा० सू० 880), 'ओरौ' (सा० सू० 193) इत्युकारस्य औकारः / तथा च अभिनौमि इति निष्पन्नम् / अत्र ‘अभिनौमि' इति क्रियापदम् / कः कर्ता ? | अहम् / कं कर्मतापन्नम् ? / अजितम् / परीषहादिभिर्न जित इत्यजितः तम् / यत्तदोः परस्परं सापेक्षत्वात् तं कम् ? / योऽजितजिनो निजजननमहोत्सवे-स्वकीयजन्ममहामहे विराजद्वनघनमेरुपरागमस्तकान्तं अधितष्ठौ-अधिष्ठितवान् आश्रितवान् इत्यर्थः / अधिपूर्वकस्य 'ष्ठा गतिनिवृत्तौ' इति धातोः परोक्षायां कर्तरि परस्मैपदे प्रथमपुरुषैकवचने णप् / ‘आदे: ष्णः स्नः' (सा० सू० 748) इति षकारस्य सकारः / 'निमित्ताभावे नैमित्तिकस्याप्यभावः' इति ठकारस्य थकारः / 'द्विश्च' (सा० सू० 710) इति द्वित्वम् स्थ-स्था-णप् इति स्थिते 'झपानां जवचपाः' (सा० सू० 714) 'इति थकारस्य तकारः / ‘आतो णप्डौ' (सा० सू० 804) इति णपः डौ डित्वाच्च टिलोपः / ‘अडभ्यासव्यवायेऽपि' (का० वा० 3699) इति षत्वम् / इति प्रक्रियासूत्रण अधितष्ठौ इति सिद्धम् / सारस्वते तु अधितस्थौ इत्येव भवति इति / वयं तु ‘प्रादेश्च तथा तौ सुनमाम्' (सा० सू० 750) इत्यनेनाडागमः / द्वित्वव्यवधानेऽपि धातोः सस्य षत्वे 'ष्टुभिः ष्टुः' (सा० सू० 79) इति टत्वे च सारस्वतेऽप्यधितष्ठाविति भवति / ‘लोकाच्छषेस्य सिद्धिः०' (सा० सू०