________________ 28 शोभनस्तुति-वृत्तिमाला 2. श्रीअजितजिनस्तुतयः अथ अजितनाथ-प्रणामःतमजितमभिनौमि यो विराजद वनघनमेरुपरागमस्तकान्तम् / निजजननमहोत्सवेऽधितष्ठावनघनमेरुपरागमस्तकान्तम् // 1 // 5 // पुष्पिताग्रा (1) . ज० वि०-तमजितमिति / अहं तं अजितं-द्वितीयं तीर्थंकरं अभिनौमि-अभिष्टुवे इति क्रियाकारकयोगः / अत्र अभिनौमि' इति क्रियापदम् / कः कर्ता ? 'अहम्' / कं कर्मतापन्नम् ? अजितम्' / यत्तदोः परस्परसापेक्षत्वात् तं कम् ? यः अजितजिनः निजजननमहोत्सवे-स्वकीयजन्ममहामहे विराजद्वनघनमेरुपरागमस्तकान्तं-विराजन्ति-शोभनानि यानि वनानि तैर्घनो-निरन्तरो यो मेरुलक्षणः परागःप्रधानपर्वतः तस्य मस्तकान्तं-शिखराग्रं,यद्वा विराजद्वनाः-शोभमानाम्भसो घना-मेघा यस्मिन् तादृशो यो मेरुपरागस्तस्य मस्तकान्तं अधितष्ठौ-अधिष्ठितवान्, आश्रितवानित्यर्थः / अत्र ‘अधितष्ठौ' इति क्रियापदम् / कः कर्ता ? 'यः' / कं कर्मतापन्नम् ? 'विराजद्वनघनमेरुपरागमस्तकान्तम्' / कस्मिन् ? 'निजजननमहोत्सवे' / विराज० कथंभूतम् ? 'अनधनमेरुपरागम्' अनघः-अनवद्यः नमेरूणां-देववृक्ष