________________ श्रीऋषभजिनस्तुतयः 27 इभवत् असिता वा / भ्रमरावल्या विशेषणानि / 'पायात्' रक्षतु / 'वः' युष्मान् / श्रुतदेवता' वाग्देवी / 'निदधती' स्थापयन्ती / 'तत्राब्जकान्ती क्रमौ' तत्र तस्मिन् अब्जकान्ती-पद्मद्युती क्रमौ-पादौ / 'नालीके' पङ्कजे / 'सरला' कौटिल्यहीना / ‘अलसा' विश्रब्धा / ‘समुदिता' मुदितं-हर्षः सह मुदितेन वर्तते या सा / 'शुभ्रा' शुक्लच्छविः / ‘अमरीभासिता' अमरीभिः-अप्सरोभि सिता / वाग्देवीविशेषणानि / यत्राली भ्रामरी गन्धाढ्यधूलीकणान् अदधत् तत्र नालीके क्रमौ निदधती श्रुतदेवता पायात् व इति संबन्धः / / 4 / 104 / / अवचूरिः यत्र नालीके चन्द्रतुल्यरुचि भ्रामरी भ्रमरसंबन्धिनी आली श्रेणिर्गन्धाढ्यकिंजल्कबिन्दूनदधत् पपौ / किंभूता / केसरेषु लालसा लम्पटा / समुदिता मिलिता / आशु शीघम् / इभेषु मदलौल्यादासिता विश्रब्धा / तत्र.नालीके क्रमौ निदधती श्रुतदेवता वः पातु / किंभूता / समुदिता सहर्षा / शुभ्रा शुक्ला छविर्यासां ताश्च ता अमर्यश्च ताभिः शोभिता / (सरला अलसा च) / / 4 / 1 / 04 / /