________________ 26 शोभनस्तुति-वृत्तिमाला . (4) दे० व्या०-शीतांशुत्विषीति / श्रुतदेवता-भारतीदेवी वो-युष्माकं आशु-शीघं यथा स्यात् तथा पायात्-रक्षतात् इत्यन्वयः / ‘पायात्' इति क्रियापदम् / का कर्जी ? | श्रुतदेवता / केषाम् ? / वः / किंविशिष्टा श्रुतदेवता ? | ‘सरला' अवक्रा कैतवाभावात्, गात्रस्य ऋजुत्वाद् वा / पुनः किंविशिष्टा ? / 'अलसा' मन्थरा मन्थरगतित्वात् / पुनः किंविशिष्टा ? / समुदिता-सहर्षा / पुनः किं० ? / शुभ्रा-गौरा, वर्णेन इति शेषः / “अवदातगौरशुभ्र” इत्यभिधानचिन्तामणिः (का० 6, श्लो० 29) / पुनः किंविशिष्टा ? | ‘अमरीभासिता' अमर्यः-देववध्वः ताभिः भासिता-शोभिता / यद्वा अमरीणां भा-कान्तिः तया सिता-बद्धा तासां सपर्याकारित्वेन समीपतरवृत्तित्वात् / “कीलितो यन्त्रितः सितः" इत्यभिधानाचिन्तामणिः (का० 3, श्लो० 102) किं कुर्वती श्रुतदेवता ? / निदधती-स्थापयन्ती / कौ ? / क्रमौ-चलनौ / “पादोऽछि (पर्दोऽह्नि ?) श्चलनः क्रमः” इत्यभिधानचिन्तामणिः (का० 3, श्लो० 280) / कस्मिन् ? / तत्र नालीके-तस्मिन् कमले / तत्र कुत्रेत्याह-योति / यत्र-यस्मिन् नालीके भ्रामरी-भ्रमरसंबन्धिनी आली-श्रेणिः गन्धाढ्यधूलीकणान् नित्यं-अनवरतं यथा स्यात् तथा अदधत्- : पपौ / 'धेटू पाने' धातुः / ‘अदधत्' इति क्रियापदम् / का की ? / भ्रामरी आली / कान् कर्मतापन्नान् ? / 'गन्धाढ्यधूलीकणान्' गन्धेन आढ्या-व्याप्ता ये धूलीकणाः-पुष्परजांसि तान् / धूलीत्यत्र ‘कृदिकारा-दक्तेरीप् [वा वक्तव्यः]' (सा० सू० 400) इत्यनेनेप् / किंविशिष्टे नालीके ? / ‘शीतांशुत्विषि' शीतांशुः-चन्द्रः तद्वत् त्विट्-कान्तिः यस्य तत् तस्मिन्, चन्द्रवदुज्ज्वले इति निष्कर्षः / किंविशिष्टा भ्रामरी आली ? / केसरलालसा / केसरं-किञ्जल्कं तत्र लालसा-लम्पटा / “किंजल्कः केसरोऽस्त्रियाम्” इत्यमरः / पुनः किंविशिष्टा ? / समुदिता-मिलिता / पुनः किंविशिष्टा ? / इभासिता इभः-करी तद्वत्-असिता / “कृष्णः स्यादसितः सितेतरः” इत्यभिधानचिन्तामणिः (का० 6, श्लो० 33) / यदा तु इभे-गजे आसिता-विश्रब्धा इत्यर्थः तदा पूर्वं इति शेषः / किंविशिष्टौ क्रमौ ? / ‘अब्जकान्ती' अब्जं-कमलं तद्वत् कान्तिः-श्रीः ययोः तौ / / 4 / 1 / 04 / / ध० टीका-शीतांश्चिति / 'शीतांशुत्विपि' मृगाङ्कभासि / 'यत्र' यस्मिन् / 'नित्यमदधत्' सततं पीतवती / 'गन्धाढ्यधूलीकणान्' गन्धेन आढ्या ये धूलीकणाः-किअल्कबिन्दवस्तान् / 'आली' पङ्क्तिः / 'केसर-लालसा' केसरेषु-पद्मगर्भपक्ष्मसु बकुलेषु वा लालसा-लम्पटा / 'समुदिता'-मिलिता | 'आशु' शीघ्रम् / 'भ्रामरी' भ्रमरसम्बन्धिनी / 'इभासिता' इभेषु द्विपेष्वासिता स्थिता मदलौल्यात्,