________________ श्रीऋषभजिनस्तुतयः इति पादसाहश्रीअकब्बरसूर्यसहस्रनामाध्यापकश्रीशत्रुञ्जयतीर्थकरमोचनाद्यनेकसुकृतविधायकमहामहोपाध्यायश्रीभानुचन्द्रगणिशिष्याष्टोत्तरशतावधानसाधनप्रमुदितपादसाहश्रीअकन्वरप्रदत्तपुस्पुहमापराभिधानमहोपाध्यायश्रीसिद्धिचन्द्रगणिविरचितायां शोभनस्तुतिवृत्तौ श्रीऋषभदेवस्तुतिवृत्तिः / / 4 / 1 / 04 / / . सौ० वृ०-शीतांश्चिति / श्रुतदेवता अमरी वः-युष्मान् पायादित्यन्वयः / 'पायात्' इति क्रियापदम् / 'पायात्' रक्षतात् / का की ? / 'श्रुतदेवता' शासनाधिष्ठायिका / कान् कर्मतापन्नान् ? / 'वः' युष्मान् / किंविशिष्टा श्रुतदेवता ? | ‘अमरी' सुरी / पुनः किंविशिष्टा श्रुतदेवता ? / इभो-गजः तत्र आसिता-स्थिता 'इभासिता' / गजवाहना इत्यर्थः / पुनः किंविशिष्टा श्रुतदेवता ? / 'शुभ्रा' गौरवर्णा / किं कुर्वती ? | 'निदधती' स्थापयन्ती / कौ कर्मतापन्नौ ? / 'क्रमौ' चरणौ / किंविशिष्टौ क्रमौ ? / अब्ज-कमलं तद्वत् कान्तिः-प्रभा ययोः तौ ‘अब्जकान्ती' / कुत्र ? / 'तत्र' नालीके-कमले / यत्र कमले भ्रामरी-भ्रमरसम्बन्धिनी आली-श्रेणिः अदधत्-पीतवती / कान् कर्मतापन्नान् ? / 'गन्धाढ्यधूलीकणान्' गन्धेन-सुरभिगन्धेन आढ्या-व्याप्ता या धूली-परागः तस्याः कणाः-लवाः तान् / कथम् ? / 'नित्यं' सदा / कुत्र ? / यत्र नालीके / कथंभूते नालीके ? / शीतांशुः चन्द्रः तद्वत् त्विट्-कान्तिर्यस्य तत् शीतांशुत्विट् तस्मिन् शीतांशुत्विपि / किंविशिष्टा भ्रामरी आली ? / केसरं-किञ्जल्कं केसरा वा तत्र लालसा-गृभुः / पुनः किंविशिष्टा आली ? / 'समुदिता' उद्यता / कथम् ? / 'आशु' शीघ्रम् / पुनः किंविशिष्टा भ्रामरी आली ? / इभासिताऽपि / कथंभूता श्रुतदेवता ? | ‘भासिता' दीप्तिमती | पुनः किंविशिष्टा श्रुतदेवता ? / 'समुदिता' सहर्षा | इति पदार्थः / / .. अथ पदविग्रहः-शीता-शीतला अंशवो यस्य स शीतांशुः, शीतांशुवत् त्विट् यस्य तत् शीतांशुत्विट्, तस्मिन् शीतांशुत्विपि / अदधत् धेटो दधादेशः सौ परे' / अदधत इति सिद्धम् / गन्धेन आढ्या गन्धाढ्या, गन्धाढ्या चासौ धूली च गन्धाढ्यधूली, गन्धाढ्यधूल्याः कणाः गन्धाढ्यधूलीकणाः, तान् गन्ध्याढ्यधूलीकणान् / केसरेषु लालसा केसरलालसा / सम्यग् उदिता समुदिता / भ्रमराणां इयं भ्रामरी / श्रुतस्य देवता श्रुतदेवता / अब्जवत् कान्तिर्ययोः तौ अब्जकान्ती / किंविशिष्टा श्रुतदेवता ? / 'सरला' अवक्रा / पुनः किंविशिष्टा श्रुतदेवता ? | ‘अलसा' मन्थरगामिनी / मुद् संजाता अस्या इति मुदिता तया सहिता समुदिता / इभे आसिता इभासिता / अत्र वृत्तचतुष्टये मध्यात् पदयमकालङ्कारः / / 4 / / श्रीमयुगादिदेवस्य, स्तुतेरो लिवीकृतः / सौभाग्यसागराख्येण, सूरिणा गुणभूरिणा // 1 // // इति प्रथमऋषभदेवस्य स्तुतिः // 4 / 1 / 04 //