________________ 24 शोभनस्तुति-वृत्तिमाला 'विधिसंभावनयोः' (सा० सू० 699) कर्तरि परस्मैपदे प्रथमपुरुषैकवचनम् / पा अग्रे यात् पायात् इति सिद्धम् / लिङ् इति संज्ञा पाणिनीयानाम् / तृतीयस्वरमध्यः कवर्गपञ्चमान्त्यश्च / अत्र ‘पायात्' इति क्रियापदम् / का की ? | श्रुतदेवता / कान् कर्मतापन्नान् ? / वः / कीदृशी श्रुतदेवता ? / सरलाकौटिल्यरहिता / यथोक्ताविहितोपासनानपि सद्वासनान् सेवकजनान् कृतार्थीकरणेन ऋजुत्वादिति भावः / पुनः कीदृशी ? / अलसा-आलस्ययुक्ता / अधिगतसर्वेच्छत्वादिति भावः / पुनः कीदृशी ? | 'समुदिता' मुदितं-हर्षितं तेन सह वर्तमाना समुदिता, मनसैव सकलचिन्तितार्थोत्पत्तेः / पुनः कीदृशी ? / 'शुभ्रा' शुक्ला, गौरवर्णेत्यर्थः / पुनः कथंभूता ? | ‘अमरीभासिता' अमर्यो-देववध्वः ताभिर्भासिताशोभिता / अङ्गरक्षादिनियोजितानां तासां सर्वदैव समीपवृत्तित्वादितिभावः / किं कुर्वती श्रुतदेवता ? / निदधती-स्थापयन्ती / कौ ? / क्रमौ-चरणौ / कथंभूतौ ? / 'अब्जकान्ती' अब्जं-कमलं तदिव कान्तिः ययोः तौ अब्जकान्ती / स्वभावतः तयोररुणवर्णत्वेन कमलकान्त्युपमानम् / अब्जानां कान्तिः याभ्यां तौ अब्जकान्ती इति वा / पूजार्थपरिमुक्ताब्जादप्यतिशयितसुकुमारत्वेन अतिशयितारुणत्वेन च ताभ्यां तस्यापि कान्त्युत्कर्षापादनादिति भावः / कस्मिन् ? नालीके-कमले / “नालीकं पद्मखण्डेऽब्जे, नालिकः शरतल्पयोः” इति विश्वः / कथंभूते ? / तत्र-तस्मिन् / यत्तदोर्नित्याभिसम्बन्धात् तत्र कुत्र ? / यस्मिन् नालिके / कथंभूते ? / यत्र ‘शीतांशुत्विषि' शीतांशुः-चन्द्रः तद्वत् त्विट्-प्रभा यस्य तत् तथा तस्मिन् / भ्रमराणां इयं भ्रामरी / 'तस्येदम्' (पा० अ० 4, पा० 3, सू० 120) इत्यण् भ्रमरसम्वन्धिनीत्यर्थः / धातोरनद्यतने कर्तरि परस्मैपदे प्रथमपुरुषैकवचनम् दिप 'दिवादावट' (सा० सू०७०७) 'धेटो दधादेशश्च वा वक्तव्यः' इत्यनेन धेटो दधादेशे 'वावसाने' (सा० सू० 240) इति दकारे अदधत् इति सिद्धम् / वा धेटां शोछोषोघाधेट्' एभ्यः परस्य सेर्लोपो वा भवति, इत्यनेन सेर्लोपे ‘सन्ध्यक्षराणामा' (सा० सू० 803) इत्यात्वे च अधात् / सेर्लोपाभावपक्षे अधासीदिति रूपत्रयं भवतीति ज्ञातव्यम् / अत्र ‘अदधत्' इति क्रियापदम् / का की ? | आली / किं सम्बन्धिनी ? / भ्रामरी / कान् कर्मतापन्नान् ? / गन्धाढ्यधूलीकणान् / “लवलेशकणाणवः” इत्यमरः (श्लो० 2148) / कुत्र ? / यत्र यत्र कथंभूते ? / शीतांशुत्विषि / कथम् ? / नित्यम् / कथम् ? | आशु-नित्यम् / कथमाश्वित्यव्ययरूपस्य पदद्वयस्य पायादित्यनेनापि अन्वयो युक्त एव / आली कथम्भूता ? / 'केसरलालसा' / केसरं किञ्जल्कम् / “किञ्जल्कः केसरोऽस्त्रियाम्” इत्यमरः (श्लो० 552) / तस्मिन् लालसा तृष्णातिरेकः औत्सुक्यं वा यस्याः सा केसरलालसा इति ‘बहुव्रीहिः' / “तृष्णातिरेके औत्सुक्ये, लालसा लोलयाञ्चयोः” इति विश्वः / केसरशब्दोऽत्र दन्त्यमध्यः / क्वचित्तालव्यमध्योऽपि / “आन्दोलकुसुमकेशरशरेण तन्वी” इति वासवदत्तायां दर्शनात् / पुनः कथंभूता ? / समुदिता-मिलिता / इतस्ततः समेत्य एकीभूतेत्यर्थः / “असितं सितिनीलं स्यात्" इत्यमरः / शार्दूलविक्रीडितं छन्दः / ‘सूर्याश्वैर्मसजस्तताः सगुरवः शार्दूलविक्रीडितम्' इति तल्लक्षणम् / / 4 / /