________________ श्रीऋषभजिनस्तुतयः ज० वि०-शीतांशुत्विषीति / श्रुतदेवता-वाग्देवी वः-युष्मान् पायात्-रक्षतु इति क्रियाकारकसम्बन्धः / अत्र ‘पायात्' इति क्रियापदम् / का कर्जी ? 'श्रुतदेवता' / कान् कर्मतापन्नान् ? ‘वः' / श्रुतदेवता किं कुर्वती ? निदधती' स्थापयन्ती / कौ ? 'क्रमौ' चरणौ / कथंभूतौ ? 'अब्जकान्ती' अब्जंकमलं तद्वत् कान्तिर्ययोस्तौ अब्जकान्ती / कस्मिन् ? 'नालीके' कमले / कथंभूते ? 'तत्र' तस्मिन् / यत्तदोर्नित्याभिसम्बन्धात् तत्र कुत्र ? 'यत्र' यस्मिन् नालीके / कथंभूते यत्र ? 'शीतांशुत्विषि' शीतांशुःचन्द्रः तद्वत् त्विट्-प्रभा यस्य तत् तथा तस्मिन् / भ्रामरी-भ्रमरसम्बन्धिनी आली-श्रेणी गन्धाढ्यधूलीकणान्-गन्धेनाढ्याः-सम्पन्ना ये धूलीकणाः-किञ्जल्कबिन्दवस्तान् नित्यं सततं आशु-शीघ्रं अदधत्पीतवती / अत्र ‘अदधत्' इति क्रियापदम् / का की ? 'आली' / किं सम्बन्धिनी ? 'भ्रामरी' / कान् कर्मतापन्नान् ? 'गन्धाढ्यधूलीकणान्' / कुत्र ? 'यत्र' / यत्र कथंभूते ? 'शीतांशुत्विषि' / कथम् ? 'नित्यम्' / पुनः कथम् ? 'आशु' नित्यम् / आश्वित्यव्यवरूपस्य पदद्वयस्य पायादित्यनेनाप्यन्वयो युक्त एव / आली कृथंभूता ? / 'केसरलालसा' केसरेषु तदर्भपक्ष्मसु बकुलेषु वा लालसा-लम्पटा / पुनः कथंभूता ? 'समुदिता' मिलिता पिण्डीभूतेत्यर्थः / पुनः कथंभूता ? 'इभासिता' इभेषु-हस्तिषु आसितास्थिता मदलौल्यात् / यद्वा इभवदसिता-श्यामा / श्रुतदेवता कथंभूता ? 'सरला' कौटिल्यरहिता / पुनः कथंभूता ? 'अलसा' विश्रब्धा / स्वास्थ्यवतीत्यर्थः / पुनः कथंभूता ? 'समुदिता' मुदितं-हर्षितं तेन सह वर्तमाना / पुनः कथंभूता ? 'शुभ्रा' शुक्लच्छविः / पुनः कथं० ? अमरीभासिता' अमरीभिः-अप्सरोभिः भासिता-शोभिता / / अथ समासः-शीता अंशवो यस्य स शीतांशुः ‘बहुव्रीहिः' / शीतांशोरिव त्विट् यस्य तत् शीतां० 'बहुव्रीहिः' / तस्मिन् शीतां० / गन्धेनाढ्या गन्धाढ्याः 'तत्पुरुषः' / धूलीनां कणाः धूलीकणाः 'तत्पुरुषः' / गन्धाढ्याश्च ते धूलीकणाश्च गन्धा० 'कर्मधारयः' / तान् गन्धा० / केसरेषु लालसा केसरलालसा 'तत्पुरुषः' / इभेष्वासिताइभासिता तत्पुरुषः' यद्वा इभवदसिता इभासिता 'तत्पुरुषः' / श्रुतस्य देवता श्रुतदेवता 'तत्पुरुषः' / अब्जवत् कान्तिर्ययोस्तौ अब्जकान्ती 'बहुव्रीहिः' / सह मुदितेन वर्तते या सा समुदिता 'तत्पुरुषः' / अमरीभि सिता अमरीभासिता 'तत्पुरुषः' / इति काव्यार्थः / / 4 / / ___ इति श्रीमवृद्धपण्डितश्रीदेवविजयगणिशिष्यपण्डितजयविजयगणिविरचितायां श्रीशोभनस्तुतिवृत्तौ श्रीऋषभस्तुतिवृत्तिः // 4 / 1 / 04 // (2) सि० वृ०-शीतांशुत्विषीति-श्रुतदेवता श्रुतस्य-शास्त्रस्य देवता-वाग्देवी / “श्रुतं शास्त्रा• वधृतयोः” इत्यमरः (श्लो० 2488) / वो-युष्मान् पायात्-रक्षेत् इत्यन्वयः / ‘पा रक्षणे' धातोः