________________ 22 शोभनस्तुति-वृत्तिमाला .44 ध० टीका-शान्तिं वस्तनुतादिति / 'शान्ति'क्षेमम् / उपशमवतां 'वो' युष्माकम् / 'तनुतात्' प्रथयतु / 'मिथोऽनुगमनात्' परस्परानुवर्तनाद्धेतोः / ‘यन्नैगमाद्यैर्नयैः' यन्नैगमसंग्रहादिभिर्नयैः, अनेकान्तात्मके वस्तुनि एकांशपरिच्छेदात्मका नयास्तैहेतुभूतेः / ‘अक्षोभं' अचलम् / 'जन हे' जनोलोकस्तस्य सम्बोधनम् / 'अतुला' महतीम् / 'छितमदोदीर्णाङ्गजालं' छितमदं-छिन्नदर्प उदीर्ण-उच्छ्रितं अङ्गानामा चाराङ्गादीनां जालं-समूहो यत्र तत् / ‘कृतं' रचितम् / 'तत् पूज्यैर्जगतां' अर्चनीयैर्लोकानाम् / 'जिनैः' अर्हद्भिः / ‘प्रवचनं' शासनम् / ‘दृप्यत्कुवाद्यावलीरक्षोभञ्जनहेतुलाञ्छितं' दृप्यन्ती-दर्पं व्रजन्ती या कुवादिनामावली सैव क्रूरात्मकत्वाद् रक्षो-राक्षससङ्ग्रहः तद्भञ्जनैःभङ्गकारिभिः हेतुभिः लाञ्छितंचिह्नितम् / 'अदः' एतद् / 'दीर्णाङ्गजालङ्कृतं' दीर्णाङ्गजैः-शीर्णमदनैः श्रमणादिभिरलङ्कृतम् / यन्नयैरक्षोभं तत् प्रवचनमदो जिनैः कृतं शान्तिमतुलां वः तनुतादिति योगः / / 3 / / अवचूरिः तद् जगतां पूज्यैर्जिनैः कृतं प्रवचनं गणिपिटकरूपं वो युष्माकं शान्ति मोक्षमुपशमं वा तनुतात् कुरुतात् / यन्मिथोऽनुगमनादनुवर्तनाद्धेतो गमादिभिर्नयैरक्षोभं परवादिभिरजेयं वर्तते / हे जन ! भव्यलोक ! / शान्ति किंभूताम् ? अतुलां निरुपमाम् / (प्रवचन) मतं किंभूतम् ? छितमदं छिन्नदर्पमुदीर्णमुच्छ्रितमङ्गानामाचारादीनां जालं समूहो यत्र तत् / (दृप्यत्) माद्यत्कुवादिश्रेणिः सैव क्रूरात्मकत्वाद् रक्षो राक्षसस्तस्य भंजनैङ्ककारिभिर्हेतुभिर्लाञ्छितं मण्डितम् / अदः प्रत्यक्षदृश्यम् / शीर्णमदनैः श्रमणादिभिरलंकृतम् / मिथोऽनुगमनादित्यत्र ‘गुणादस्त्रियां न च (वा)' इति पञ्चमी / / 3 / / श्रुतदेवता-स्मरणम्शीतांशुत्विषि यत्र नित्यमदधद् गन्धाढ्यधूलीकणा नाली केसरलालसा समुदिताऽऽशु भ्रामरीभासिता / पायाद् वः श्रुतदेवता निदधती तत्राब्जकान्ती क्रमौ नालीके सरलाऽलसा समुदिता शुभ्रामरीभासिता // 4 // 4 // ___ - शार्दूल० 1. 'द्वादशाङ्गी स्याद् गणिपिटकाया' इति श्रीअभिधानचिन्तामणिः (का० 2, श्लो० 159) / 2. इदं श्रीसिद्धहेमशब्दानुशासनस्य (2 / 277) सूत्रम् / 3. 'भ्रामरी भासिता' इत्यपि पदच्छेदः समीचीनः /