________________ श्रीऋषभजिनस्तुतयः .antra+++ वाद्यावली एव रक्षांसि दृप्यत्कुवाद्यावलीरक्षांसि, दृप्यत्कुवाद्यावलीरक्षसां भञ्जनं दृप्यत्कुवाद्यावलीरक्षोभञ्जनं, दृप्यत्कुवाद्यावलीरक्षोभञ्जने हेतवः दृप्य०, दृप्य०भञ्जनहेतुभिर्लाञ्छितं दृप्य०भञ्जनहेतुलाञ्छितम् / दीर्णः अङ्गजो यैस्ते दीर्णाङ्गजाः, दीर्णाङ्गजैः अलंकृतं दीर्णाङ्गजालं० / / इति तृतीयवृत्तार्थः / / 3 / / दे० व्या० शान्ति वस्तनुतादिति / हे जन!-हे भव्यलोक ! तत् प्रवचन-गणिपिटकलक्षणं वोयुष्माकं शान्ति-उपशमं तनुतात्-विस्तारयतात् इत्यन्वयः / 'तनु विस्तारे'धातुः / 'तनुतात्' इति क्रियापदम् / किं कर्तृ ? / प्रवचनम् / कां कर्मतापन्नाम् ? / शान्तिम् / केषाम् ? / वः / यत्तदोर्नित्याभिसम्बन्धात् यत् प्रवचनं अक्षोभं-अजेयं वर्तते इत्यध्याहारः / कैः ? / 'नयैः' नयाः-प्रमाणैकदेशाः तैः / किंविशिष्टैः नयैः ? / 'नैगमाद्यैः' नैगमा आद्या येषां ते नैगमाद्याः तैः / कस्मात् ? / 'मिथोऽनुगमनात्' मिथः-परस्परं अनुगमनं-अनुवर्तनं तस्मात् / अत्र ‘गुणादस्त्रियां नवा वा' (सिद्धहेमे अ० 2, पा० 2, सू०७७) इति पञ्चमी / किंविशिष्टां शान्तिम् ? / 'अतुला' न विद्यते तुला यस्याः सा तथा ताम् / 'तुला साम्ये मानदण्डे' इति विश्वः / किं० प्रवचनम् ? / 'छितमदोदीर्णाङ्गजालम्' छितो-लूनः मदो येन, 'छिन्नं लूनं छितं दितम्' इत्यमरः एतादृशम् / उदीर्ण-उत्सेधितम् अङ्गानां-आचारङ्गादीनां जालं-निवहो यत्र तत् / “जालं निवहसंचयः (यौ?)” इत्यभिधानचिन्तामणिः (का० ६,श्लो०४८) / पुनः किंविशिष्टम् ? कृतंनिष्पादितम् / कैः ? / जिनैः-तीर्थंकरैः / अर्थतः तैरेव भाषितत्वात् / तथा चोक्तम्-“अत्थं भासइ अरहा, सुत्तं गंथंति गणहरा निउणं” इत्यावश्यके / पुनः किंविशिष्टम् ? | ‘दृप्यत्कुवाद्यावलीरक्षोभञ्जनहेतुलाञ्छितं' दृप्यन्ती-माद्यन्ती या कुवाद्यावली कुवादिनो-बौद्धादयः तेषां आवली-पङ्क्तिः सैव क्रूराभिप्रायात् रक्षः-कीनाशः तस्य भञ्जना-भङ्गकारिणः ये हेतवो-युक्तयः तैः लाञ्छितं-मण्डितम् / पुनः किंवि० ? / अदः-विप्रकृष्टम्, मन्दमेधसामिति शेषः / तदुक्तम् “इदमः प्रत्यक्षगतं, समीपतरवर्ति चैतदो रूपम् / अदसस्तु विप्रकृष्टे, तदिति परोक्षे विजानीयात् // " - आर्या इति / अदः प्रत्यक्षदृश्यमिति प्राञ्चः / पुनः किंवि० ? / 'दीर्णाङ्गजालकृतम्' दीर्णः-विदारितः अङ्गजः-कन्दर्पो यैस्ते दीर्णाङ्गजा-मुनयः तैः अलंकृतं-भूषितम्, मुमुक्षुप्रधानत्वेन तन्निरूपणात् / किंवि० जिनैः ? पूज्यैः-अर्चनाहः / केषाम् ? / जगतां-त्रिभुवनानाम् / / इति तृतीयवृत्तार्थः / / 3 / / 1. अर्थ भाषन्ते अर्हन्तः, सूत्रं ग्रनन्ति गणधरा निपुणम् /