________________ श्रीऋषभजिनस्तुतयः 19 रक्षसो भञ्जनाः दृप्यत्कु० 'तत्पुरुषः' दृप्यत्कुवाद्यावलीरक्षोभञ्जनाश्च ते हेतवश्च दृप्य० 'कर्मधारयः' / दृप्यत्कुवाद्यावलीरक्षोभञ्जनहेतुभिर्लाञ्छितं दृप्यत्कु० 'तत्पुरुषः' / दीर्णोऽङ्गजो यैस्ते दीर्णाङ्गजाः 'बहुव्रीहिः' / दीर्णाङ्गजैरलङ्कृतं दीर्णाङ्ग० 'तत्पुरुषः' / / इति काव्यार्थः / / 3 / / (2) सि० वृ०-शान्तिमिति / हे जन ! हे भव्यप्राणिन् ! तत् प्रवचन-शासनं वो-युष्माकं शान्ति कल्याणं उपशमं वा तनुतात्-प्रथयतु इत्यर्थः / “शमः शान्तिः शमथोपशमावपि” इति हैमः (का० 2, श्लो० 218) / 'तनु विस्तारे' धातोः ‘आशी-प्रेरणयोः' (सा० सू० 703) परस्मैपदे प्रथमपुरुषैकवचनम् / तुप् ‘तनादेरुप्' (सा० सू० 997), 'तुह्योस्तातङ्[आ शिषि वा वक्तव्यः] (सा० सू० 704) इति तातडादेशः / 'स्वरहीनम्०' (सा० सू० 36) / तथा च तनुतादिति सिद्धम् / अत्र 'तनुतात्' इति क्रियापदम् / किं कर्तृ ? / प्रवचनम् / कां कर्मतापन्नाम् ? / शान्तिम् / “शान्तिः शमेऽपि कल्याणे” इति विश्वः / केषाम् ? / वः षष्ठी चतुर्थी' (सा० सू० 339) इति षष्ठीबहुवचने युष्मच्छब्दस्य वसादेशः / तच्छब्दस्य यच्छब्दसापेक्षत्वात् तत् किम् ? / यत् प्रवचनं अक्षोभं-क्षोभयितुमशक्यम् निश्चलमित्यर्थः / कैः ? / 'नयैः' अनेकान्तात्मके वस्तुनि नयाः प्रमाणपरिच्छिन्नार्थेकादेशाः तैः / कीदृशैः नयैः ? / नैगमः आद्यः येषां ते नैगमाद्याः तैः नैगमसङ्ग्रहप्रभृतिभिः नयैरित्यर्थः / कस्माद्धेतोः नयैः अक्षोभम् ? / 'मिथोऽनुगमनात्' मिथः-परस्परं अनुगमनं-अनुवर्तनं तस्मात् / भगवत्प्रवचने हि सर्वेऽपि नया अन्योन्यमनुवर्तन्ते सर्वनयात्मकत्वात् तस्येति भावः / “मिथोऽन्योन्यं रहस्यं” इत्यमरः (श्लो० 2847) / कथंभूतां शान्तिम् ? / 'अतुलाम्' नास्ति तुला-साम्यं यस्याः सा तथा तां, महतीमित्यर्थः / “तुला पलशते राशौ, भाण्डे सादृश्यमानयोः” इति विश्वः / कीदृशं प्रवचनम् ? / 'छितमदोदीर्णाङ्गजालम्' छितमदं च तत् उदीर्णं च इति कर्मधारयः' / छितमदं-छिन्नदर्पम् उदीर्ण-उदारम् अङ्गानां-आचाराङ्गादिसूत्राणां जालंसमूहो यत्र तत् तथा / “जालं समूह आनायो, गवाक्षरक्षारकावपि” इत्यमरः (श्लो० 2736) / 'शाच्छोरन्यतरस्याम्' (पा० अ०७, पा०४, सू० 41) इति विकल्पेन इकारान्तत्वे छित इति निष्पन्नम् / “लूने छिन्नं (छिन्ने लूनं ?) छितं दितं खण्डितं (छेदितं ?) वृक्णम्” इति हैमः (का० 6, श्लो० 125126) / पुनः कीदृशम् ? / कृतं-विरचितम् / कैः ? / जिनैः / जयन्ति रागद्वेषौ इति जिनाः-तीर्थंकराः तैः अर्थतस्तैरेव भाषितत्वात् / 'जि जये' / 'इण् सिजि' इति नक् / पुनः कीदृशम् ? / 'दृप्यत्कुवाद्यावलीरक्षोभञ्जनहेतुलाञ्छितम्' दृप्यन्ती-दर्पं व्रजन्ती या कुवाद्यावली-कुत्सिता वादिनः-कुवादिनः तेषां आवलीपङ्क्तिः / “राजिलेखा ततिर्वीथी, मालाल्यावलिपङ्क्तयः” इति हैमः (का० 6, श्लो० 59) / सैव क्रूराभिप्रायात् रक्षो-राक्षसः, अत्र लिङ्गभेदो न दोषाय / “लिङ्गभेदं तु मेनिरे” इति वचनस्य प्रामाण्यात् / तस्य भञ्जना भङ्गकारका ये हेतवो-युक्तयः साध्यगमका वा तैः लाञ्छितं-सहितम् / पुनः कीदृशम् ? /