________________ 18 शोभनस्तुति-वृत्तिमाला जिनप्रवचनप्रशंसाशान्ति वस्तनुतान्मिथोऽनुगमनाद् यन्नैगमाद्यैर्नयै रक्षोभं जन ! हेऽतुलां छितमदोदीर्णाङ्गजालं कृतम् / तत् पूज्यैर्जगतां जिनैः प्रवचनं दृप्यत्कुवाद्यावली रक्षोभञ्जनहेतुलाञ्छितमदो दीर्णाङ्गजालङ्कृतम् // 3 // 3 // - शार्दूल० ज० वि०-शान्ति वस्तनुतादिति / हे जन ! तत् अदः प्रवचन-शासनं वः-युष्माकं शान्ति-क्षेमं तनुतात्-प्रथयतु इति क्रियाकारकसंटङ्कः / अत्र 'तनुतात्' इति क्रियापदम् / किं कर्तृ ? 'प्रवचनम्' / कां कर्मतापन्नाम् ? 'शान्तिम्' / केषाम् ? 'वः' / शान्तिं कथंभूताम् ? 'अतुलां' महतीम् / प्रवचनं कथंभूतम् ? 'कृतं' रचितम् / कैः ? 'जिनैः' तीर्थंकरैः / कथंभूतैः ? 'पूज्यैः' अर्चनीयैः / केषाम् ? 'जगतां' त्रिभुवनानाम् / तच्छब्दस्य यच्छब्दसापेक्षत्वात् तत् किम् ? यत् ‘अक्षोभं' क्षोभयितुमशक्यम्, निश्चलमित्यर्थः / कैः ? 'नयैः' अनेकान्तात्मके वस्तुनि एकांशपरिच्छेदात्मकरूपैः / नयैः कथंभूतैः ? 'नैगमाद्यैः' नैगम-संग्रहप्रभृतिभिः / कस्माद्धेतोः नयैरक्षोभम् ? 'मिथोऽनुगमनात्' परस्परानुवर्तनात् / अयं भावः-भगवत्प्रवचने हि सर्वेऽपि नया अन्योन्यमनुवर्तन्ते, सर्वनयात्मकत्वात् तस्य / पुनः कथंभूतं प्रवचनम् ? 'छितमदोदीर्णाङ्गजालं' छितमदं-छिन्नदर्प उदीर्ण-उदारं अङ्गानां-आचाराङ्गादीनां जालं-समूहो यत्र तत् तथा / पुनः कथंभूतम् ? 'दृप्यत्कुवाद्यावलीरक्षोभञ्जनहेतुलाञ्छितं' दृप्यन्ती-दर्पं व्रजन्ती या कुवादिनां आवली-श्रेणी सैव क्रूरात्मकत्वेन रक्षो-राक्षसः / अत्र लिङ्गभेदो न दोषाय, “लिङ्गभेदं तु मेनिरे” इति वचनस्य प्रामाण्यात् / तस्य भञ्जनाः-भङ्गकारिणो ये हेतवस्तैाञ्छितं-चिह्नितम् / अत एव पुनः कथंभूतम् ? 'दीर्णाङ्गजालङ्कृतं' दीर्णः-शीर्णः अङ्गजः-कामो येषां ते तथोक्ताः अर्थात् श्रमणादयस्तैरलङ्कृतं-भूषितं सहितमिति भावः / अत्र द्वितीयपदे जनशब्दात् परो हे शब्दस्तु जनस्याभिमुख्याभिव्यक्तये प्राक् प्रयोज्यस्तथैव च दर्शितः / / ___अथ समासः-नैगमः आद्यो येषां ते नैगमाद्याः ‘बहुव्रीहिः' / न विद्यते क्षोभो यस्य तत् अक्षोभं 'बहुव्रीहिः' / न विद्यते तुला यस्या असौ अतुला ‘बहुव्रीहिः' / तां अतुलाम् / छितमदं च तद् उदीर्णं च छित० 'कर्मधारयः' / अङ्गानां जालं अङ्ग० 'तत्पुरुषः' / छितमदोदीर्णं अङ्गजालं यत्र तत् छित० 'बहुव्रीहिः' / कुत्सिता वादिनः कुवादिनः 'तत्पुरुषः' / कुवादिनां आवली कुवा० 'तत्पुरुषः' / दृप्यन्ती चासौ कुवाद्यावली च दृप्य० 'कर्मधारयः' / दृप्यत्कुवाद्यावल्येव रक्षो दृप्य० 'कर्मधारयः' / दृप्यत्कुवाद्यावली