________________ श्रीऋषभजिनस्तुतयः 17 आकाशात् / पुनः किंविशिष्टाः ? | ‘आराविभ्रमरोचिताः' आराविणः-शब्दायमानाः ये भ्रमराः-षट्पदाः 'तेपां उचिताः-योग्याः / एतेन सौरभातिशयः सूचितः / पुनः किंवि० ? / 'मन्दारवाराजिताः' मन्दारःकल्पवृक्षः तस्य पुष्पाणि मन्दाराणि तेषां वारः-समूहः तेन अजिताः-अपरिभूताः / “मन्दारः कल्पपादपः" इत्यमरः / मन्दारवारः आ-समन्तात् जितो यया सा तथेति वा / / इति द्वितीयवृत्तार्थः / / 2 / / ध० टीका-ते वः पान्त्विति / ते वः पान्तु जिनोत्तमाः' ते युष्मान् रक्षन्तु जिनवराः / क्षतरुजो' ध्वंसित-रोगाः / 'नाचिक्षिपुः' नाचकृपुः / ‘यन्मनो' येषां संबन्धि मनः / ‘दाराः' कलत्राणि / 'विभ्रमरोचिताः' विलासैः शोभिताः / 'सुमनसः' सुन्दरहृदयाः / 'मन्दारवाः' मृदुरवाः सन्तो ‘राजिताः' शोभिताः / इमानि दाराणां विशेषणानि / 'यत्पादौ च' येषां जिनानां पादौ, च व्याप्यभूतौ / 'सुरोज्झिताः' अमरोत्सृष्टाः / 'सुरभयाञ्चक्रुः' सुगन्धीकृतवत्यः / 'पतन्त्योऽम्बरात्' गलत्यो नभसः / 'आराविभ्रमरोचिताः' आराविणां-रवयुक्तानां भ्रमराणां उचिता-योग्याः / 'सुमनसः' कुसुमानि / 'मन्दारवाराजिताः' मन्दाराणां मन्दारकुसुमानां वारैः-संघातैः अजिताः-अनतिशयिताः, अथवा मन्दारवारैः कृत्वाऽन्यैः पुष्पविशेषै-रजिताः / यन्मनो दारा नाचिक्षिपुः, यत्पादौ च सुमनसः सुरभयांचक्रुः ते जिनोत्तमाः वः पान्त्विति सम्वन्धः / / 2 / / . (6) अवचूरि ते जिनोत्तमा जिनेन्द्रा वो युष्मान् पान्तु रक्षन्तु / किंभूताः / क्षताः क्षीणा रुजो रोगा येषां येभ्यो वा ते / तथा येषां जिनानां मनो मानसं कर्मतापन्नं दाराः कलत्राणि कर्तृरूपाणि नाचिक्षिपुर्न क्षोभयामासुः / ‘दाराः प्राणास्तु वलजाः' इति वचनाद् दारशब्दो बहुवचनान्तः पुंलिङ्गश्च / ते दाराः किंभूताः / विभ्रमैर्विलासै रोचिताः संशोभिताः / सुमनसः सुन्दरहृदयाः / मन्दारवा मृदुरवाः सन्तो राजिताः शोभिताः / सुमनसः पुष्पाणि कर्तृणि यत्पादौ यच्चरणौ सुरभयामासुः / किंभूताः सुमनसः / सुरोज्झिता देवमुक्ताः / अम्वरादाकाशात् पतन्त्यः समवसरणभुवि संगच्छमानाः / आराविणः शब्दायमाना भ्रमरास्तेपामुचिता योग्याः / मन्दारकुसुमवातैरजिताः / / 2 / /