________________ शोभनस्तुति-वृत्तिमाला अथ समासः-जयन्ति रागादीन् शत्रून् इति जिनाः-सामान्यकेवलिनः तेषु उत्तमाः जिनोत्तमाः / क्षता रुजो यैः येभ्यो वा क्षतरुजः / येषां मनः यन्मनः तद् यन्मनः / विभ्रमैः रोचिताः विभ्रमरोचिताः / मन्द आरवो यासां ता मन्दारवाः / येषां पादौ यत्पादौ / सुरैः उज्झिताः सुरोज्झिताः / पतन्ति ताः पतन्त्यः / आरावो येषामस्तीति आराविणः, आराविणश्च ते भ्रमराश्च आराविभ्रमराः, आराविभ्रमरैः उचिताः आराविभ्रमरोचिताः / मन्दाराणां वाराः मन्दारवाराः, तैः मन्दारवारैः अजिताः मन्दारवाराजिताः / “सुमनाः पण्डिते पुष्पे, गोधूमे सज्जने सुरे” इत्यनेकार्थः / / इति द्वितीयवृत्तार्थः / / 2 / / दे० व्या०–ते वः पान्त्विति / ते जिनोत्तमाः-तीर्थंकराः वो-युष्मान् पान्तु-रक्षन्तु इत्यन्वयः / 'पा. रक्षणे' धातुः / ‘पान्तु' इति क्रियापदम् / के कर्तारः ? / 'जिनोत्तमाः' जिनाश्च ते उत्तमाश्च इति ‘कर्मधारयः' / जिनाः-सामान्यकेवलिनः तेषु उत्तमाः-श्रेष्ठा इत्यर्थः / “जिनः सामान्यकेवली” इत्यनेकार्थः / किंविशिष्टा जिनोत्तमाः ? | 'क्षतरुजः' क्षताः-क्षयं प्रापिताः रुजो-रोगा यैस्ते तथा अवनीतलवर्तिसकलप्राणिनां आध्यात्मिकाधिदैविकाधिभौतिकरोगनिवर्तका इति भावः / यत्तदोर्नित्याभिसम्बन्धात् यन्मनः दाराः-कलत्राणि नाचिक्षिपुः-न क्षोभयामासुः इत्यन्वयः / ‘क्षिप प्रेरणे' धातुः / 'आचिक्षिपुः' इति क्रियापदम् / के कर्तारः ? / दाराः / दारशब्दो नित्यं पुंल्लिङ्गो बहुवचनान्तश्च / किं कर्मतापन्नम् ? / 'यन्मनः' येषां मनो यन्मनः इति समासः / किंविशिष्टा दाराः ? / 'विभ्रमरोचिताः' विभ्रमाः-कटाक्षाक्षेपाः तैः रोचिताः-शोभिताः / तदुक्तम् “हावो मुखविकारः स्याद्, भावश्चित्तसमुद्भवः / विकारा नेत्रजा ज्ञेया, विभ्रमा भूसमुद्भवाः / / " इति / पुनः किं० ? | ‘सुमनसः' सुष्ठु मनो येषां ते तथा / पुनः किंविशिष्टाः ? / 'मन्दारवाराजिताः' मन्दः-अतिशयेन स्वल्पः आरवः-शब्दो येषां ते मन्दारवाः ते च ते [आ] राजिताश्च इति समासः / “संव्या(ङ्भ्यो)राव आरावः” इत्यभिधानचिन्तामणिः (का० 6, श्लो० 36) / पृथग्विशेषणे इति प्राञ्चः / वस्तुतस्तु अमन्दा इति अकारप्रश्लेषः / न मन्दा-अमन्दाः अतिविवेकिन इत्यर्थः / रवेणशब्दमात्रेण आरं-अरिसमूहो रवारं तेन अजिताः-अकृतजयाः ते तथा / अर्थक्रियासमर्था अरयो येषां न सन्त्येव, शब्दमात्रेण अरयः तैः अकृतजया इति भावः / तु पुनरर्थे / तेन च-पुनः सुमनसः-पुष्पाणि यत्पादौ सुरभयांचक्रुः-सुरभयामासुरित्यर्थः ‘डुकृञ् करणे' धातुः / 'सुरभयांचकुः' इति क्रियापदम् / काः कर्त्यः ? / सुमनसः / कौ कर्मतापन्नौ ? / 'यत्पादो' येषां पादाविति समासः / किंविशिष्टाः सुमनसः ? | 'सुरोज्झिताः' सुरैः-देवैः उज्झिताः-मुक्ताः / किं कुर्वत्यः सुमनसः ? / पतन्त्यः / कस्मात् ? / अम्वरात्