________________ श्रीऋषभजिनस्तुतयः 15 दृश्यते / यदाह-“पत्पादोऽधिश्चरणोऽस्त्रीषु” इति गौडः / “पदधिश्चरणोऽस्त्रियाम्” इत्यमरः (श्लो० *1216) च / परमेतयोरत्र न प्रयोजनम् / प्रसङ्गाद् व्युत्पत्तये प्रदर्शितमेतत् / कथंभूताः सुमनसः ? / 'सुरोज्झिताः' सुरैः-देवैः उज्झिताः-मुक्ताः / किं कुर्वत्यः सुमनसः ? / पतन्त्यः-गलन्त्यः / कस्मात् ? / अम्बरात्-आकाशात् / “अम्बरं व्योमवाससोः” इत्यनेकार्थः / पुनः कथंभूताः ? / 'आराविभ्रमरोचिताः' आरावो-गुमगुमेति ध्वनिविशेषः विद्यते येषां ते आराविणः-शब्दायमाना ये भ्रमराः-द्विरेफाः तेषां उचिताःयोग्याः / अनेन सौरभातिशयः सूचितः / पुनः कथंभूताः ? / 'मन्दारवाराजिताः' मन्दारो-देवतरुविशेषः तस्य पुष्पाणि मन्दाराणि तेषां वारः-समूहः तेन अजिताः-अपराभूताः इति 'तत्पुरुषः' / “पञ्चैते देवतरवो, मन्दारः पारिजातकः / सन्तानः कल्पवृक्षश्च, पुंसि वा हरिचन्दनम् / / " इत्यमरः (श्लो० 99-100) / “समूहवाचको वारः, वारो वेश्यागणः स्मृतः” इति सुभूतिः / मन्दारवारो-मन्दारपुष्पसमूहः जितः-पराभूतो याभिः इति वा / “परापर्यभितो [भूतो] जितो भग्नः पराजितः” इति हैमः (का० 3, श्लो० 469) / / 2 / / सौ० वृ०-ते वः पान्त्विति / ते जिनोत्तमाः वो-युष्मान् पान्तु इत्यन्वयः / 'पान्तु' इति क्रियापदम् / के कर्तारः ? / जिनोत्तमाः / कान् कर्मतापन्नान् ? / 'वः' युष्मान् / किंविशिष्टाः जिनोत्तमाः ? 'ते' प्रसिद्धाः / ते के ? | यन्मनः सुमनसः दाराः न आचिक्षिपुः इति सम्बन्धः / 'आचिक्षिपुः' इति क्रियापदम् / के कर्तारः ? / 'दाराः' कलत्राणि / आचिक्षिपुः' आचकृषुः / कथम् ? / 'न' निषेधे / किं कर्मतापन्नम् ? | 'यन्मनः' येषां तीर्थंकराणां मनः-चित्तम् / दाराः कस्य ? / 'सुमनसः' त्रिदशस्य / जातावेकवचनम् / किंविशिष्टा जिनोत्तमाः ? | 'क्षतरुजः' गतरोगाः / किं वि० दाराः ? / 'विभ्रमरोचिताः' विभ्रमाहावभावविलासादयः तै रोचिताः-शोभिताः / पुनः किं वि० दाराः ? / 'मन्दारवाः' मन्दः-कोमलः आरवःशब्दो यासां ता मन्दारवाः / पुनः किं वि० दाराः ? / 'राजिताः' लावण्यादिगुणैः शोभिताः / च-पुनः सुरोज्झिताः सुमनसः यत्पादौ सुरभयांचक्रुरित्यन्वयः / 'सुरभयांचक्रुः' इति क्रियापदम् / काः कर्त्यः ? / 'सुमनसः' पुष्पवृष्टयः / सुरभयांचक्रुः-सुगन्धीकृतवत्यः / कौ कर्मतापन्नौ ? / 'यत्पादौ' यच्चरणौ / किंविशिष्टाः सुमनसः ? / 'सुरोज्झिताः' देवमुक्ताः / 'पतन्त्यः' प्रगलन्त्यः / कस्मात् ? | ‘अम्बरात्' आकाशात् / पुनः किंविशिष्टाः सुमनसः ? | ‘आराविभ्रमरोचिताः' आराविणः-शब्दायमानाः ये भ्रमराद्विरेफाः तेषां उचिताः-योग्याः / पुनः किंविशिष्टाः सुमनसः ? | ‘मन्दारवाराजिताः' मन्दाराणांकल्पवृक्षाणां वाराः-समुदायाः तैरजिताः-अनतिशायिताः / इति पदार्थः / /