________________ शोभनस्तुति-वृत्तिमाला पुष्पादीनां सहसैव परित्यागः वस्त्राभरणमाल्यानां अकारणतः खण्डनं मण्डनं चेति वदन्ति / पुनः कीदृशाः ? 'सुमनसः' शोभनानि सनेहानि मनांसि येषां ते तथोक्ताः तादृशाः सन्तो राजिताः-शोभिताः, यथा स्वस्वाम्येव शृणोति तथैव जल्पन्ति नोच्चैर्जल्पन्ति, नान्येषां स्वं ज्ञापयन्तीति भावः / आहुश्च“गतागतकुतूहलं नयनयोरपाङ्गावधि स्मितं कुलनतभुवामधर एव विश्राम्यति / वचः प्रियतमश्रुतेरतिथिरेव कोपक्रमः ___ कदाचिदपि चेत् तदा मनसि केवलं मज्जति // " इति ‘रसमञ्जर्या' भानुकरमिश्राः / “मन्दोऽतीक्ष्णे च मूर्खे च, वैरे निर्भाग्यरोगिणोः / अल्पे च त्रिषु पुंसि स्यात्” इति मेदिनिः / वस्तुतस्तु अमन्दा (इत्यत्र) अकारप्रश्लेषः / न मन्दाः अमन्दाः, अतिविवेकिन इत्यर्थः / रवेण-शब्दमात्रेण आरं-अरिसमूहो रवारं तेन अजिताः-अकृतजयाः ते तथा / अर्थक्रियासमर्था अरयो न सन्त्येव / शब्दमात्रेण ये अरयः तैः अकृतजया इति भावः / च-पुनः सुमनसःकुसुमानि यत्पादौ-येषां चरणौ सुरभयाञ्चक्रुः-सुरभीकुर्वन्ति स्मेत्यर्थः / ‘डुकृञ् करणे' धातोः कर्तरि परोक्षायां प्रथमपुरुषबहुवचनं उस् णिदन्तः / सुरभिर्नाम सौत्रो धातुः ‘कासादिप्रत्ययात्' (सा० सू० 766) इत्याम् / अग्रे कृञ् धातुः तदने उस् / 'द्विश्च' (सा० सू० 710) इति धातोढिर्वचनम् / ‘कृञ् कृञ् उस्' इति जातम् / ‘रः' (सा० सू० 768) इत्यनेन पूर्वऋकारस्याकारः / 'कुहोश्शुः' (सा० सू० 746) इति पूर्वककारस्य चुत्वम् / तथा च 'चकृ उस्' इति जातम् / ततः 'ऋ रम्' (सा० सू० 39) इति ऋकारस्य रकारः / स्वरहीनं [परेण संयोज्यम्] (सा० सू० 36) तथा च सुरभि आम् चक्रुः इति जातम् / आम्प्रत्ययस्य दशविध आख्यातव्यतिरिक्तत्वात् न डित्वमिति / ‘गुणः' (सा० सू० 692) इत्येनन गुणः / 'ए अय्' (सा० सू० 41) / ‘स्वरहीनम्' (सा० सू० 36) एवं च ‘सुरभयाञ्चक्रुः' इति सिद्धम् / 'सुरभयाञ्चक्रुः' इति क्रियापदम् / काः कर्त्यः ? / सुमनसः / अत्रायं सुमनः शब्दः सकारान्तः पुष्पवाचको बहुवचनान्तो मन्तव्यः / आह च “आपः सुमनसो वर्षा, अप्सरस्सिकताः समाः / एते त्रयो बहुत्वे स्युरेकत्वेऽप्युत्तरं त्रिकम् // " इत्यमरः / सुष्ठु मान्यते-पूज्यते आभिः इति समासः / “स्त्रियां वा बहुवचनान्तः” इति हैम्यां नाममालावृत्तौ / अत एव “सुमनाः पुष्पमालत्योः स्त्रियां” इति गौडोऽप्यवदत् / लक्ष्यं च 'वेश्याः श्मशानसुमना इव वर्जनीयाः” इति शूद्रकः / कौ कर्मतापन्नौ ? / यत्पादौ / पादशब्दोऽयं अकारान्तः क्वचित् पाद् इति व्यञ्जनान्तोऽपि दृश्यते / यदाह-“पादसमानार्थः पाद् अप्यस्ति” इति दुर्गः / पदित्यपि क्वचित्