________________ श्रीऋषभजिनस्तुतयः (सा० सू० 52) तथा च पान्तु इति सिद्धम् / “जिनः सामान्यकेवली” इति कोशात् जिनेषु-सामान्यकेवलिषु उत्तमाः जिनोत्तमाः इति सप्तमीतत्पुरुषः, 'न निर्धारणे' (पाणिनीये अ० 2, पा० 2, सू० 10) इति पष्ठीसमासनिषेधात् / कर्मधारये तु “परमोत्तमोत्कृष्टाः पूज्यैः” इति वचनात् उत्तमजिना इति स्यात् / “जिनः स्यादतिवृद्धे च, बुधे चार्हति जित्वरे” इति विश्वः / वः इत्यत्र ‘बहुवचनस्य वस्नसौ' (पा० अ० 8, पा० 1, सू० 21) इति युष्मान् इत्यस्य वसादेशः / कथंभूता जिनोत्तमाः ? / 'क्षतरुजः' क्षताः-क्षयं नीताः रुजो-रोगा यैस्ते तथा इति ‘बहुव्रीहिः' / यत्तदोर्नित्याभिसम्वन्धात् ते के ? / यन्मनः-येषां मनो यन्मनः दाराः-कलत्राणि न (आ) चिक्षिपुः-न क्षिप्तवन्तः, विकारमार्गं नाचकृपुः इत्यर्थः / ‘क्षिप प्रेरणे' परोक्षे परस्मैपदे कर्तरि प्रथमपुरुषवहुवचनम् / क्षिप् अग्रे उस् धातोः 'द्विश्च' (सा० सू० 710) इति द्वित्वम् / 'पूर्वस्य हसादिः शेषः' (सा० सू० 739) इति षकारलोपः / 'कुहोश्चः' (सा० सू० 746) इति ककारस्य चुत्वम् / ‘णादि कित्' (सा० सू० 709) इति कित्संज्ञत्वात् गुणाभावः / तथा च चिक्षिपुः इति सिद्धम् / दारशब्दोऽत्र कलत्रवाचकः पुंल्लिङ्गो नित्यं वहुवचनान्त एव / दारयन्ति दीर्यन्ते एभिः इति वा दाराः / 'दारजारौ कर्तरि णिलुक् च' (कात्यायनवार्तिके 2182) इति क्वचित् घञि साधुः / “भार्या जायाऽथ पुंभूम्नि, दाराः स्यात् तु कुटुम्विनी", इत्यमरः (श्लो० 1085) / क्वचिदावन्तोऽप्युक्तः / यदुक्तम् "क्रोडा हावा तथा दारा, त्रय एते यथाक्रमम् / क्रोडे हावे च दारेषु, शब्दाः प्रोक्ता मनीषिभिः // " इति हट्टचन्द्रः / क्वचिदनाबन्तोऽप्येकवचनान्तश्च “धर्मप्रजासंपन्ने दारे नान्यं कुर्वीत” इति हैम्यां नाममालावृत्तौ / "संतोषस्त्रिषु कर्तव्यः, स्वदारे भोजने धने / त्रिषु चैव न कर्तव्यो, दाने चाध्ययने नये // " इति चाणक्योऽप्याह / परमेतयोरत्र न ग्रहणम्, तथाप्रयोगाभावात् / प्रस्तुतानुपयोगित्वेऽपि व्युत्पत्तये प्रसङ्गादेतद् दर्शितमिति ध्येयम् / यन्मन इत्यत्र ‘यरोऽनुनासिकेऽनुनासिको वा' (पा० अ० 8, पा० 4; सू० 45) इति दकारस्य नकारः / कीदृशा दाराः ? / 'विभ्रमरोचिताः' विभ्रमाः-भूसमुद्भवविलासाः तैः रोचिताः-शोभिताः इति 'तत्पुरुषः' / यदाहु:- . “हावो मुखविकारः स्याद्, भावश्चित्तसमुद्भवः / विकारो नेत्रजो ज्ञेयो, विभ्रमो भूसमुद्भवः // " इति केचित् / “योषितां यौवनजो विकारो विभ्रमः” इत्यन्ये / अपरे तु “मदहर्षरागजनितो विपर्यासो विभ्रमः” यथानिमित्तमासनादुत्थायान्यत्र गमनं प्रियकथामाक्षिप्य सख्या सहालापनं मुधैव हसितक्रोधौ