________________ शोभनस्तुति-वृत्तिमाला . (1) ___ज० वि० ते वः पान्त्विति / ते जिनोत्तमाः-जिनवराः वः-युष्मान् पान्तु-रक्षन्तु इति क्रियाकारकसम्वन्धः / तत्र ‘पान्तु' इति क्रियापदम् / के कर्तारः ? 'जिनोत्तमाः' / कान् कर्मतापन्नान् ? 'वः' / कथंभूता जिनोत्तमाः ? 'क्षतरुजः' क्षताः-क्षयं नीताः रुजो-रोगा यैस्ते तथा | यत्तदोर्नित्याभिसम्बन्धात् / ते के ? यन्मनः-यस्य मानसं दाराः-कलत्राणि न (आ) चिक्षिपुः-न क्षिप्तवन्तः, न चकृषुरिति भावः / अयं ‘दार'शब्दः कलत्रवाचकः पुल्लिङ्गो नित्यं बहुवचनान्तो ज्ञेयः / तत्र ‘आचिक्षिपुः' इति क्रियापदम् / कथं ? 'न' / के कर्तारः ? 'दाराः' / किं कर्मतापन्नम् ? ‘यन्मनः' / दाराः कथंभूताः ? 'विभ्रमरोचिताः' विभ्रमैः-विलासैः रोचिताः-शोभिताः / पुनः कथंभूताः ? 'सुमनसः' शोभनानि मनांसि येषां ते तथा / ' पुनः कथंभूताः ? 'मन्दारवाराजिताः' मन्दो-मृदुः आरवः-शब्दो येषां ते तथा तादृशाः सन्तो राजिताःशोभिताः / 'च' पुनः / सुमनसः-कुसुमानि यत्पादौ-येषां चरणौ सुरभयाचक्रुः-सुरभीकुर्वन्ति स्मेति क्रियाकारकयोजना / अत्रायं 'सुमनस्' शब्द: सकारान्तः पुष्पवाचको बहुवचनान्तो मन्तव्यः / अत्र 'सुरभयाञ्चक्रुः' इति क्रियापदम् / काः कर्व्यः ? 'सुमनसः' / कौ कर्मतापन्नौ ? 'यत्पादौ' / सुमनसः कथंभूताः ? 'सुरोज्झिताः' सुरैः-देवैः उज्झिताः-उत्सृष्टाः, मुक्ता इत्यर्थः / किं कुर्वन्त्यः ? 'पतन्त्यः' गलन्त्यः / कस्मात् ? 'अम्वरात्' आकाशात् / पुनः कथं० ? 'आराविभ्रमरोचिता;' आराविणःशब्दायमानाः ये भ्रमराः-मधुकरास्तेषां उचिताः-योग्याः / पुनः कथं० ? 'मन्दारवाराजिताः' मन्दाराणांमन्दारकुसुमानां वारैः अजिताः याः तासामतिशायित्वेनाऽनभिभूता इति भावः / यथा मन्दारवारैः करणभूतैः कृत्वा अन्यैः पुष्पान्तरैरजिताः / / ___ अथ समासः-जिनानां, जिनेषु वा उत्तमाः जिनोत्तमाः 'तत्पुरुषः' / क्षता रुजो यैस्ते क्षतरुजः 'बहुव्रीहिः' / येषां मनः यन्मनः 'तत्पुरुषः' / विभ्रमै रोचिताः विभ्रमरोचिताः 'तत्पुरुषः' / शोभनानि मनांसि येषां ते सुमनसः ‘बहुव्रीहिः' / मन्दा आरवा येषां ते मन्दारवाः ‘वहुव्रीहिः' / येषां पादौ यत्पादौ 'तत्पुरुषः' / सुरैरुज्झिताः सुरोज्झिताः 'तत्पुरुषः' / आराविणश्च ते भ्रमराश्च आराविभ्रमराः ‘कर्मधारयः' ।आराविभ्रमराणामुचिता आरा० 'तत्पुरुषः' / न जिता अजिताः 'तत्पुरुषः' / मन्दाराणां वाराः मन्दा० 'तत्पुरुषः' / मन्दारवारैरजिता मन्दा० 'तत्पुरुषः' / / इति काव्यार्थः / / 2 / / (2) सि० वृ० ते वः पान्त्विति / ते जिनोत्तमाः-जिनवराः वः-युष्मभ्यं पान्तु-रक्षन्तु इत्यर्थः / 'पा रक्षणे' . धातोः ‘आशी:प्रेरणयोः' (सारस्वते सू० 703) परस्मैपदे प्रथमपुरुषबहुवचनम् / पा अग्रे अन्तु 'अप् कर्तरि' (सा० सू० 691) इत्यप् / ‘अदादेर्लुक्' (सा० सू० 880) / ‘सवर्णे दीर्घः ? [सह]'