________________ श्रीऋषभजिनस्तुतयः अवचूरिः धनपालपण्डितबान्धवेन शोभनाभिधानेन मुनिचक्रवर्तिना विरचितानां प्रतिजिनं चतुष्कभावात् पण्णवतिसंख्यानां शोभनस्तुतीनामवचूरिः किंचिल्लिख्यते / तत्रादौ युगादिस्तुतिमाह / / ___ हे नाभिनन्दन ! (हे) नाभिनरेन्द्रपुत्र ! त्वं महानुत्सवान् विदुषां संपादयेति संबन्धः / भव्या एवाम्भोजानि कमलानि तेषां विबोधन एकोऽद्वितीयस्तरणिः सूर्यस्तस्य संबोधनं हे भव्याम्भोजविवोधनैकतरणे ! / सूर्यो यथा स्वगोसंभारैस्तमो विधूय पद्मखण्डानि विकासयत्येवं भगवानपि मिथ्यात्वादितमस्तोमं ध्वंसयित्वा निजगोसंभारैभव्यजन्तूनां बोधं विधत्ते / ननु भव्यानामेव स प्रबोधं विधत्ते न त्वभव्यानां, तर्हि तस्य तद्बोधने सामर्थ्यमायातमिति नैवम् / नहि भानवीया भानवो विश्वं विश्वमवभासयन्तोऽपि कौशिककुले आलोकमकुर्वाणा उपलम्भास्पदं स्युः / एवं भगवतो वाणी विश्वविश्वस्य प्रमोदविधायिन्यपि यद्यभव्यानां केषांचिनिबिडकर्मनिगडनियन्त्रितानां प्रबोधाय न प्रभवति, तर्हि तस्या न ह्यसामर्थ्यम् / किन्तु तेषामेवाभाग्यं येषां ता न रोचयन्ते (सा न रोचते) / नहि जलदो जलं प्रयच्छन्नूषरक्षेत्रे तृणान्यनुत्पादयन्नुपालम्भसंभावनामर्हतीत्यलं विस्तरेण / विस्तारिणी विस्तारवती कर्मणां ज्ञानावरणादिभेदभिन्नानामावली माला सैव रम्भा कदली तस्याः प्रमर्दहेतुत्वात् सामजो हस्ती तस्य संबोधनम् / हे नाभिनन्दन ! (हे नाभिनरेन्द्रपुत्र !) / तथा महत्यो नष्टा आपदा यस्य स महानष्टापत्, तत् संबोधनं / तथा आभासुरैः कान्तिसंभारेण समन्ताद् देदीप्यमानैरासुरैर्देवविशेषैर्भक्त्या आन्तरचित्तप्रतिबन्धेन हे वन्दितपादपद्म ! हे स्तुतचरणकमल ! / प्रोज्झिताः प्रकर्षण त्यक्ता आरम्भाः सावधव्यापारा येन तस्य संबोधनम् / तथा सह आमै रोगैर्वर्तते सामः / न तथा असामोऽरोगस्तस्य संबोधनम् / जनानभिनन्दयति तस्य संबोधनम् / तथा अष्टापदं सुवर्णं तद्वदासमन्ताभा दीप्तिर्यस्य तस्य संबोधनम् / तप्तजात्यतपनीयसमवर्णत्वाद् भगवतः / / 1 / / / समस्तजिनवराणां स्तुतिःते वः पान्तु जिनोत्तमाः क्षतरुजो नाचिक्षिपुर्यन्मनो दारा विभ्रमरोचिताः सुमनसो मन्दारवा राजिताः / यत्पादौ च सुरोज्झिताः सुरभयाञ्चक्रुः पतन्त्योऽम्बरा___ दाराविभ्रमरोचिताः सुमनसो मन्दारवाराजिताः // 2 // 2 // - शार्दूल०