________________ शोभनस्तुति-वृत्तिमाला अब्जायताक्षः समजायतास्य, श्लाघ्यस्तनूजो गुणलब्धपूजः / यः शोभनत्वं शुभवर्णभाजा, न नाम नाम्ना वपुषाऽप्यधत्ते // 3 // ___- उपजातिः कातन्त्रचन्द्रोदिततन्त्रवेदी, यो बुद्धबौद्धार्हततत्त्वतत्त्वः / साहित्यविद्यार्णवपारदर्शी, निदर्शनं काव्यकृतां बभूव // 4 // कौमार एव क्षतमारवीर्य-श्चेष्टां चिकीर्षन्निव रिष्टनेमेः / यः सर्वसावधनिवृत्तिगुवीं, सत्यप्रतिज्ञो विदधे प्रतिज्ञाम् // 5 // अभ्यस्यता धर्ममकारि येन, जीवाभिघातः कलयाऽपि नैव / चित्रं चतुःसागरचक्रकाञ्चि स्तथापि भूर्व्यापि गुणस्वनेन // 6 // एतां यथामति विमृश्य निजानुजस्य तस्योज्ज्वलं कृतिमलंकृतवान् स्ववृत्त्या / अभ्यर्थितो विदधता त्रिदिवप्रयाणं तेनैव साम्प्रतकविर्धनपालनामा // 7 // - वसन्ततिलका भव्याम्भोजेति / 'भव्याम्भोजविबोधनैकतरणे !' भव्या-मुक्तियोग्या जन्तवः त एवाम्भोजानि तेषां विबोधने-बोधजनने एकतरणे-अद्वितीयभास्वन् ! / 'विस्तारिकर्मावलीरम्भासामज !' विस्तारिणी या कर्मावली-ज्ञानावरणादिमलमाला सैव रम्भा-कदली तस्याः प्रमर्दनहेतुत्वात् सामज-द्विरद ! / 'नाभिनन्दन !' नाभेय ! / 'महानष्टापत् !' महत्यो नष्टा आपदो यस्य तस्य सम्बोधनम् / 'आभासुरैः' आभासनशीलैः / भक्त्या' भावेन / 'वन्दितपादपद्म !' स्तुतचरणारविन्द ! / 'विदुषां सम्पादय' ज्ञानवतां वितर / ‘प्रोज्झितारम्भ !' त्यक्तप्रारम्भ ! / 'असाम !' असरोग ! / 'जनाभिनन्दन !' लोकप्रह्लादन ! / 'महान्' उत्सवान् / 'अष्टापदाभ !' सुवर्णद्युते ! / 'असुरैः' दानवैः / हे नाभिनन्दन ! आभासुरैरसुरैः (भक्त्या वन्दितपादपद्म ! त्वं विदुषां) महान् सम्पादयेति समुदायार्थः / / 1 / /