________________ श्रीऋषभजिनस्तुतयः +++++ + कः कर्ता ? / त्वम् / कान् कर्मतापन्नान् ? / महान् / केषाम् ? / विदुषाम् / ‘भव्याम्भोजविबोधनैकतरणे' इति / भव्या एव अम्भोजानि-पद्मानि तेषां विबोधन-प्रबोधनं तस्मिन् एकः-अद्वितीयः तरणिः-सूर्यः यः सः तस्यामन्त्रणम् / यथा सूर्यः स्वकरपम्पराभिः अन्धतमसं विधूय पद्मवनानि प्रबोधयति, तथा भगवानपि स्वभारतीसंभारैः मिथ्यात्वादिध्वान्तनिकरं दूरीकृत्य भव्यप्राणिनां बोधं विधत्ते इति भावः / 'विस्तारिकर्मावलीरम्भासामज' इति / विस्तारिणी कर्मणां-ज्ञानावरणादीनां आवलिः(ली?)-श्रेणिः सैव या रम्भा-कदली तस्यां सामजो-गजः यः सः तस्यामन्त्रणम् / यथा गजो लीलयैव रम्भामुन्मूलयति, तथा भगवता कर्माण्युन्मूल्यन्ते इति भावः / ‘महानष्टापद्' इति नष्टा चासौ आपच्चेति पूर्वं 'कर्मधारयः' / ततो महती नष्टा आपद्-विपद् यस्मात् तस्यामन्त्रणम् अत्र महत्-शब्दस्य पुंवद्भावादीपो निवृत्तिः / 'वन्दितपादपद्म' इति / पादावेव पद्मं पादपद्मं इति पूर्वं 'तत्पुरुषः' / ततो वन्दितं नमस्कृतं पादपद्मचरणाम्भोजं यस्य सः तस्यामन्त्रणम् / कैः ? / असुरैः-भुवनपतिभिः / कया ? / भक्त्या / “आराध्यत्वेन ज्ञानं भक्तिः” इति वर्धमानचरणाः, तया / किंविशिष्टैः ? / 'आभासुरैः' आ-समन्तात् भासुरैःदीप्यमानैः / 'प्रोज्झितारम्भ' इति / प्रकर्षेण उज्झिताः-त्यक्ताः आरम्भाः-सावधव्यापारा येन सः तस्यामन्त्रणम् / असाम' इति ! अमो-रोगः तेन सह वर्तमानः सामः, न सामः असामः तस्यामन्त्रणम् / ‘जनाभिनन्दन' इति / जनान्-लोकान् अभिनन्दयति-आनन्दयति यः तस्यामन्त्रणम् / ‘अष्टापदाभ' इति / अष्टापदं-सुवर्णं तद्वत् आभा-कान्तिः यस्य तस्यामन्त्रणम् / “आभा राढा विभूषा श्रीः" इत्यभिधानचिन्तामणिः (का० 6, श्लो० 148) एतानि सर्वाणि भगवतः सम्बोधनपदानि / इति प्रथमवृत्तार्थः / / 1 / / परमाऽऽर्हतधनपालपण्डितकृता टीका / अवतरणम् आसीद् द्विजन्माऽखिलमध्यदेश-प्रकाशशङ्कास्य(?)निवेशजन्मा / अलब्ध देवर्षिरिति प्रसिद्धं, यो दानवर्णित्वविभूषितोऽपि // 1 // - उपजातिः शास्त्रेष्वधीती कुशलः कलासु, बन्धे च बोधे च गिरां प्रकृष्टः / तस्यात्मजन्मा समभून् महात्मा, देवः स्वयम्भूरिव सर्वदेवः // 2 // - इन्द्रवज्रा . 1. नहि दानवर्षिर्देवर्षिभवितुमर्हतीति विरोधः; ‘दान वर्षि' इति छेदेन तत्परिहारः /