________________ शोभनस्तुति-वृत्तिमाला परमागमगमसंगम-संस्कृतवचनेष्वपास्तमानमलः / तत्पादमुकुटरत्नं, जयतात् श्रीविजयसेनगुरुः // 3 // . - आर्या श्रीविजयदेवसूरिस्तत्पट्टविभूषणं सदा जीयात् / श्रीमज्जैनप्रवचनप्रभावनाकृत्यविधिदक्षः // 4 // . - आर्या अवनमदवनीन्द्रस्फारकोटीरहीर धुतिपटलपयोभि|तपादारविन्दः / स नयविजयलक्ष्मीदेवने देवकीभू र्जयति विजयसिंहः सूरिशार्दूलशावः // 5 // - मालिनी श्रीभानुचन्द्रा वरवाचकेन्द्रा विद्यारसेन्द्रा विनयानतेन्द्राः / अकब्बरक्ष्मापतिलब्धमानाः साधुक्रियाकृत्यपरा बभूवुः // 6 // - उपजातिः तेषां गुरूणां गुणभाजनानां शिष्यैकलेशेन विधीयते मया / श्रीदेवचन्द्राभिधपण्डितेन व्याख्याविधिः शोभनशोभनस्तुतेः // 7 // - इन्द्रवंशा धनपालपण्डितबन्धुना श्रीशोभनसाधुना कृतानां षण्णवतिसंख्याकानां शोभनस्तुतीनां पण्डितदेवचन्द्रेण किंचिदर्थो लिख्यते / तत्रादौ श्रीनाभिनन्दनजिनस्तुतिमाह-भव्याम्भोजेति / व्याख्या प्रस्तूयते-तल्लक्षणं च “संहिता च पदं चैव” इत्यादि / एतच्च स्वबुद्ध्या योजनीयम् / ग्रन्थविस्तरभयात् मन्दमतीनां प्रतिपत्तिगौरवपरिहारार्थं वदतं (?) प्रतन्यते / हे नाभिनन्दन ! त्वं महान्उत्सवान् विदुषां-पण्डितानां संपादय-निष्पादयेत्यर्थः / ‘पद गतौ' धातुः / ‘संपादय' इति क्रियापदम् /