________________ श्रीऋषभजिनस्तुतयः अथ समासः-भव्या एव अम्भोजानि भव्याम्भोजानि, भव्याम्भोजानां विबोधनं भव्याम्भोजविबोधनं, एकश्चासौ तरणिश्च एकतरणिः भव्याम्भोजविबोधने एकतरणिः भव्याम्भो०तरणिः तस्य सम्बो० हे भव्या० / विस्तारोऽस्या अस्तीति विस्तारिणी, कर्मणां आवली कर्मावली, विस्तारिणी चासौ कर्मावली च विस्तारिकर्मावली, विस्तारिकर्मावली एव रम्भा विस्तारिकर्मावलीरम्भा, विस्ता० रम्भायां सामजः तस्य सम्बो० हे विस्तारि०रम्भासामज! / नन्दयतीति नन्दनः, नाभेर्नन्दनो नाभिनन्दनः तत्सम्बो० हे नाभिनन्दन ! / अष्टापदवत् आभा यस्य स अष्टापदाभः तस्य सम्बो० हे अष्टापदाभ!। पाद एव पद्मं पादपद्म, वन्दितं पादपद्मं यस्य स वन्दितपादपद्मः तस्य सम्बो० हे वन्दितपादपद्म! / प्रोज्झिता आरम्भा येन स प्रोज्झितारम्भः तत्सम्बो० हे प्रोज्झितारम्भ ! / अमेन सहितः सामः, न सामः असामः तत्सम्बो० हे असाम ! / जनान् अभिनन्दतीति जनाभिनन्दनः तत्संबो० हे जनाभिनन्दन ! / महत्यो नष्टा आपदो यस्य स महानष्टापत् तत्सं० हे महानष्टापत् ! / आ-समन्तात् भासुरा आभासुराः तैः ‘आभासुरैः' / शार्दूलविक्रीडितम् / / 1 / / श्रीदेवंचन्द्रविहिता व्याख्या / प्रारम्भः श्रेयःस्तोमतरङ्गिणीप्रियतमप्रोल्लासशीतद्युतिं पापप्रोद्धतपङ्कपूगशमनप्रोद्दामपाथोधरम् / वन्देऽहं जिनकुञ्जरं गतजरामोहाघमायामयं प्रीत्यावेशवशः सदा सुखकरं देवार्यदेवं मुदा // 1 // - शार्दूलविक्रीडितम् श्रीवर्धमानस्य शिशुः सुधर्मा सल्लब्धिपात्रं गणभृद् बभूव / श्रीहीरपूर्वो विजयाग्रसूरि रासीद् गुरुस्तस्य परम्परायाम् // 2 // - इन्द्रवज्रा 1. श्रीहीरविजयसूरिरित्यर्थः /