________________ शोभनस्तुति-वृत्तिमाला श्रीमच्चतुर्विंशतितीर्थराज स्तुतेः सुधी “शोभन" निर्मितायाः // 1 // * इन्द्रवंशा आसीत् पुरा “चोज्जयिनी" निवासी, पवित्रगोत्रो द्विज “श(स)र्वदेवः” / तस्याङ्गजः “शोभन" नामसाधु बन्धुर्द्वितीयो “धनपाल” नामा // 2 // . - उपजातिः तेनान्यदा “पण्डित शोभनेन”, कृता चतुर्विंशतिका जिनानाम् / स्तुतिस्वरूपा विविधार्थचित्राऽलङ्कारसारा सरसाऽप्रमेया // 3 // . - उप० अर्थतयोः सम्बन्धविस्तरस्तु तत्प्रबन्धादवसेयः / सांप्रतं तु शोभनस्तुतिकाव्यस्यार्थो लिख्यते / तत्र प्रथमं युगादिदेवस्तुतिमाह-भव्याम्भोजेति / भव्याः-सिद्धिगमनयोग्याः प्राणिनः त एवाम्भोजानिकमलानि तेषां विबोधनं-प्रकाशकरणं तस्मिन् एकः-अद्वितीयः तरणिः-भास्वानिव भास्वान् तत्संबोधने हे भव्याम्भोजविबोधनैकतरणे! / पुनः विस्तारिणी-विस्तारवती-प्रसरणशीला या कर्मणां ज्ञानावरणीयादीनां आवली-श्रेणिः सैव रम्भा-कदली तस्या उत्पाटने सामजः-द्विरंद इव द्विरदः तत्संबुद्धौ हे विस्तारिकर्मावलीरम्भासामज! | पुनः हे नाभिनन्दन !-नाभिकुलगुरुपुत्र! | पुनः अष्टापदं-स्वर्णं तद्वद् आभा-कान्तिः यस्य तत्सम्बो० हे अष्टापदाभ !| पुनः भक्त्या-भावेन असुरैः-देवविशेषैः वन्दितं-प्रणमितं पादपद्म-चरणकमलं यस्य स तत्सम्बो० हे वन्दितपादपद्म! / पुनः प्रोज्झिताः-त्यक्ताः आरम्भाःसावद्यव्यापारा येन स तत्सम्बो० हे प्रोज्झितारम्भ ! / पुनः अमो-रोगस्तेन सहितः सामः / तद्विरहितः असामः, अरोग इत्यर्थः / पुनः जनानां-विश्वलोकानां अभि-सामस्त्येन आनन्दनः-आनन्दकृत् तत्सम्बोध० हे जनाभिनन्दन ! | पुनः महत्यो नष्टा-गता आपदो-विपदो यस्य यस्माद् वा स महानष्टापत् तस्य सम्बो० हे महानष्टापत् ! / त्वं विदुषां महान् सम्पादयेत्यन्वयः / 'सम्पादय' इति क्रियापदम् / कः कर्ता ? / त्वम् / ‘सम्पादय' सम्यक् प्रकारेण निष्पादय-कुरु / कान् कर्मतापन्नान् ? / 'महान्' उत्सवान् / केषाम् ? / 'विदुषाम्' पण्डितानाम् / “महः क्षणोद्धवोद्धर्षाः” इति हैमः (का० 6, श्लो० 144) / किंविशिष्टैः असुरैः ? / आ-समन्तात् भासुरैः-देदीप्यमानैः / इति सम्बोधनप्रथमवृत्तार्थः / / /