________________ श्रीऋषभजिनस्तुतयः भव्याम्भोजविबोधनैकतरणे ! / यथा सूर्यः स्वकिरणैः अन्धकारं विनाश्य पद्मवनानि-कमलवनानि प्रबोधयति, तथा भगवानपि स्ववचनैः मिथ्यात्वतिमिरं दूरीकृत्य भव्यानां प्रबोधं विदधातीति भावः / हे 'विस्तारिकर्मावलीरम्भासामज' ! विस्तारिणी-प्रसरणशीला या कर्मावली-कर्मणां ज्ञानावरणादीनां आवली-श्रेणिः सैव रम्भा-कदली तस्यां सामज इव सामजो-गजः तस्य सं० हे विस्तारिकर्मावलीरम्भासामज ! / “सामवेदाज्जातः सामजः” इति निरुक्तिः / “सामानि गायतो ब्रह्मणः करादष्टौ गजाः समुत्पन्नाः” इति श्रुतेः / यथा हस्ती लीलयैव रम्भामुन्मूलयति, तथा प्रभुणाऽपि विनाऽऽयासेन कर्माण्युन्मूल्यन्ते इति भावः / हे 'महानष्टापत्' ! महत्यो नष्टा आपदो-विपत्तयो यस्मात् यस्य वा इति 'बहुव्रीहिः' तथा तस्य संबो० हे महानष्टापत् ! / महच्छब्दस्य स्त्रियां पुंवद्रावात ईपो निवृत्तिः ‘आत्महतः समानाधिकरण' इति टेरात्वं च / हे 'वन्दितपादपद्म' ! वन्दिते-नमस्कृते पादावेव पद्म-कमले यस्य इति 'बहुव्रीहिः' स तथा तस्य संबो० हे वन्दितपादपद्म ! / “पद्यते-चरति अत्र लक्ष्मीः इति पद्मं” इति निरुक्तिः / "वा पुंसि पद्मं नलिनमरविन्दं महोत्पलम्” इत्यमरः (श्लो० 545) / कैः ? / असुरैः-भवनवासिदेवविशेपैः / “असुरा दैत्यदैतेयदनुजेन्द्रारिदानवाः” इत्यमरः (श्लो० 23) / कीदृशैः ? | आभासुरैःआभासनशीलैः / आ-ईषत् सुरापेक्षया भासुरैः-दीप्यमानैरिति वा / “आङीषदर्थेऽभिव्याप्तौ सीमार्थे योगजेऽपि च (धातु योगज ?)" इत्यमरः (श्लो० 2814) / कया ? / भक्त्या / भक्तिः-श्रद्धा पूज्येष्वनुराग इति यावत् / तथा “श्रद्धावचनयोक्तिः " इत्यमरः / “आराध्यत्वेन ज्ञानं भक्तिः” इति तु न्यायविदः / हे ‘प्रोज्झितारम्भ' ! प्रोज्झितः-प्रकर्षण त्यक्तः आरम्भः-सावधव्यापारो-हिंसात्मको दर्पो वा येन इति ‘बहुव्रीहिः' स तथा तस्य संबो० हे प्रोज्झितारम्भ ! / “आरम्भस्तु त्वरायां स्यादुद्यमे वधदर्पयोः” इति विश्वः / हे 'असाम' ! सह आमेन-रोगेण वर्तत यः स सामः न सामः असामः 'तत्पुरुषः' तस्य संबो० हे असाम ! / “आम आमय आकल्पमुपतापो गदः समाः” इति हैमः (का० 3, श्लो० 127) / हे 'जनाभिनन्दन' ! जनानां-भव्यप्राणिनां अभिनन्दयति-आह्लादं उत्पादयति इति अभिनन्दनः तस्य सं० हे जनाभिन्दन ! / 'नन्दिग्रहादेः' इति युः ‘युवोरनाकौ' इत्यनादेशः / हे 'अष्टापदाभ' / अष्टापदं-सुवर्णं तदिव आभा-कान्तिर्यस्य इति ‘बहुव्रीहिः' तस्य संबोधनं हे अष्टापदाभ / 'अष्टन आ संज्ञायाम्' इत्यात्वम् / “रुक्मं कार्तस्वरं जाम्वूनदमष्टापदोऽस्त्रियाम्” इत्यमरः (श्लो० 1897) / / 1 / / ___(3) __ श्रीसौभाग्यसागरसूरिकृता वृत्तिः / उपक्रमः श्रीमज्जिनेन्द्रं प्रणिपत्य भावतो -लिखामि वृत्तिं सुखबोधहेतवे /