________________ तस्यान्तेनिलयी विधेयजगतीलोकः स्मरो मूर्तिमान विद्ववृन्दगजेन्द्रतर्जनहरिः श्रीसिद्धिचन्द्रोऽस्ति सः / यत्कीर्तिं भुजगाङ्गनावलिभिरुद्गीतां समाकर्णयन् आनन्दामृतपूर्णकर्णकुहरः शेषः सुखं खेलति // 4 // - शार्दूलविक्रीडितम् परेषां यद् दूरे हृदयसरणेरस्ति तदिदं वधानानामष्टोत्तरशतमा(मवा?)लोक्य मुदितः / महाराजः श्रीमानकब्बरनृपो यस्य सहसा भुवि ख्यातामाख्यां सपदि षुस्फुहमेति विदधे // 5 // - शिखरिणी बालबोधकृते तेन, परोपकृतिशालिना / संक्षिप्ता क्रियते वृत्तिः, शोभना शोभनस्तुतेः / / 6 // - अनुष्टुप् इह हि ग्रन्थारम्भे विशिष्टशिष्टाचारप्रतिपालनाय 'निर्विघ्नसमाप्तिकामो मङ्गलमाचरेत्' इति श्रुतिवोधितकर्तव्यताकं स्वामीष्टदैवतश्रीऋषभस्वामिस्तुतिरूपमेवादी मङ्गलमाचरन्नाह-भव्याम्भोजेति / हे नाभिनन्दन ! नाभेर्नन्दनो नाभिनन्दनः 'तत्पुरुषः' तस्य संबोधनं हे नाभिनन्दन / नाभिनरेन्द्रसूनो ! त्वं विदुषां-पण्डितानां महान्-उत्सवान् संपादय-देहीत्यर्थः / ‘पद गतौ' धातुः संपूर्वः आशीः-प्रेरणयोः परस्मैपदे मध्यमपुरुषैकवचनम् ‘पदाग्रे हि श्शुरादेर्जिः' 'अत उपधायाः' इति वृद्धिः ‘अप् कर्तरि' इत्यप् ‘गुणः' इत्यनेन गुणः ‘ए अय्' 'अतः' इति हेर्लोपः / तथा च संपादय इति सिद्धम् / अत्र ‘संपादय' इति क्रियापदम् / कः कर्ता ? / त्वम् / कान् कर्मतापन्नान् ? / महान् / “महश्चो(स्तू?)त्सवतेजसोः” इत्यमरः (श्लो० 2797) / अदन्तोऽत्र महःशब्दः सकारान्तोऽप्यस्ति / यदाह "नभं तु नभसा साकं, तपं च तपसा सह / रजं च रजसा सार्धं, महं च महसा समम् / / " इति विश्वः / विदुषां इत्यत्र विद्वच्छब्दस्य आमि परे ‘वसोर्व उः' इति वस्योत्वे सकारस्य क्विलात्' इति पत्वे च विदुपामिति सिद्धम् / अपराणि सर्वाणि भगवतः संवोधनानि / तेषां व्याख्या त्वेवम् / हे 'भव्याम्भोजविवोधनैकतरणे' ! भव्या-मुक्तियोग्या जन्तवः, तद्रूपाणि यानि अम्भोजानि-कमलानि तेपां विवोधनं प्रवोधजननं तत्र एकः-अद्वितीयो यः तरणिरिव तरणिः-सूर्यः तस्य संवोधनं हे