________________ श्रीऋषभजिनस्तुतयः कर्मावली च विस्तारि० 'कर्मधारयः' / विस्तारिकर्मावली चासौ रम्भा च विस्तारि० 'कर्मधारयः' विस्तारिकर्मावलीरम्भायां सामजः विस्तारि० 'तत्पुरुषः' तत्सम्बोधनं हे विस्तारि० / नाभेर्नन्दनः नाभि० 'तत्पुरुषः' / तत्सम्बोधनं हे नाभि० / महानष्टा आपदो यस्य, यस्माद् वा स महानष्टापत् 'बहुव्रीहिः' / तत्सं० हे महा० / पादावेव पद्मे पादपद्मे 'कर्मधारयः' / वन्दिते पादपद्मे यस्य स वन्दित० 'बहुव्रीहिः' / तत्सम्बो० हे वन्दि० / प्रोज्झित आरम्भो येन स प्रोज्झि० ‘बहुव्रीहिः' / तत्सं० हे प्रोज्झि० | सह आमेन वर्तते यः स सामः ‘तत्पुरुषः' / न सामः असामः ‘तत्पुरुषः' / तत्सं० हे असाम ! / जनानां अभिनन्दनः जना० 'तत्पुरुषः' / तत्सं० हे जना० / अष्टापदस्येव आभा यस्य सोऽष्टाप० ‘बहुव्रीहिः' / तत्सं० हे अष्टा० / इति काव्यार्थः / / 1 / / श्रीसिद्धिचन्द्रगणिरचिता वृत्तिः / प्रस्तावः शश्वत् क्षीरपयोधिजामधुकरीसंसेव्यमानक्रमा म्भोजन्मद्वितयः शिवं स दिशतु श्रीपार्धचिन्तामणिः / कस्तूरीकृतपत्रवल्लिहृदया यत्कीर्तिकान्ता किमु . द्रष्टुं विश्वमितस्ततः शशितनुः कौतूहलाद् भ्राम्यति // 1 // - शार्दूलविक्रीडितम् अस्ति श्रीमदखण्डपाठकगणप्राप्तप्रतिष्ठोन्नति भूपालावलिवन्धमानचरणः श्रीभानुचन्द्रो गुरुः / यत्कीर्तिर्भुवनाङ्गणे गुणगणच्छन्ने न मान्ती पुनः भ्रातुः कर्णगताऽकरोदभिनवब्रह्माण्डयाञ्चामिव // 2 // - शार्दूल० यदुपदेशवशेन मुदं दधन् निखिलमण्डलवासिजने निजे / मृतधनं च करं च स जीजिआ ऽभिधमकब्बरभूपतिरत्यजत् // 3 // - द्रुतविलम्बितम्