________________ शोभनस्तुति-वृत्तिमाला पण्डितजयविजयगणिविरचिता विवृत्तिः / अवतरणम् प्रणम्य परमानन्द-दायिनं जिनकुञ्जरम् / श्रीगुरोः शासनाद् वक्ष्ये, विवृत्तिं शोभनस्तुतेः // 1 // - अनुष्टप् इह हि तावदशेषविशेषविशारदा विशारदाः सर्वत्राऽपि प्रयोजनमुद्दिश्यैव प्रवर्तन्ते तच्च मुख्यतः पुरुषार्थः / स च धर्मार्थकाममोक्षभेदाच्चतुर्धा भिद्यते / तत्रापि दुःखानुषङ्गपराङ्मुखानन्तसुखात्मकत्वेन परमपुरुषार्थत्वात् प्रधानतमत्वं मोक्षस्यैव / स च भगवदुपासनासाध्य इति मोक्षार्थी शोभनमुनिः ऋषभादीनां चतुर्विंशतिजिनानां क्रमेण काव्यचतुष्टयमयीश्चतुर्विंशतिस्तुतीः प्रणयन् प्रथमं श्रीऋषभप्रभोः स्तुतिमाह ___ भव्याम्भोजेति / हे नाभिनन्दन !-हे नाभिनरेन्द्रसूनो ! त्वं विदुषां-पण्डितानां महान्-उत्सवान् सम्पादय-देहि इति क्रियाकारकसंटङ्कः / तत्र ‘सम्पादय' इति क्रियापदम् / कः कर्ता ? 'त्वम्' / कान् कर्मतापन्नान् ? 'महान्' / केषाम् ? 'विदुषाम्' / अपराणि सर्वाणि सम्बोधनानि / तेषां व्याख्या यथाहे भव्याम्भोजविवोधनैकतरणे' ! भव्याः-मुक्तियोग्या जन्तवः तद्रूपाणि यानि अम्भोजानि-कमलानि तेषां विवोधने-विबोधजनने एकः-अद्वितीयः तरणिः-सूर्यः तत्सम्बोधनं हे भव्या० / हे 'विस्तारिकर्मावलीरम्भासामज' ! विस्तारिणी या कर्मावली-कर्मश्रेणी तद्रूपा या रम्भा-कदली तत्र सामजो-हस्ती तदुन्मूलकत्वात् तत्सम्बोधनं हे विस्तारि० / हे 'महानष्टापत्' ! महत्यो नष्टा आपदो यस्मात् स तथा तत्सम्वोधनं हे महानष्टा० / हे 'वन्दितपादपद्म' ! वन्दिते-नमस्कृते पादपद्मे-चरणकमले यस्य स तथा तत्सम्बोधनं हे वन्दितपाद० / कैः ? 'असुरैः' भवनवासिभिर्देवविशेषैः / कथंभूतैः ? 'आभासुरैः' आभासनशीलैः / कया ? 'भक्त्या' / हे 'प्रोज्झितारम्भ' ! प्रोज्झितः-प्रकर्षण त्यक्तः आरम्भः-सावद्यव्यापारो येन स तथा तत्सम्वोधनं हे प्रोज्झितारम्भ ! / हे असाम' ! न सामः-सरोगः असामः तत्सम्बोधनं हे असाम ! / हे 'जनाभिनन्दन' ! जनानां अभिनन्दनः-प्रह्लादनः तत्सम्बोधनं हे जनाभिनन्दन ! / हे 'अष्टापदाभ'! अष्टापदं-सुवर्णं तद्वत् आभा-कान्तिर्यस्य स तथा तत्सम्बोधनं हे अष्टाप० / / अथ समासः-भव्या एवाम्भोजानि भव्याम्भोजानि 'कर्मधारयः' / भव्याम्भोजानां विवोधनं . भव्या० 'तत्पुरुषः' / एकश्चासौ तरणिश्च एक० 'कर्मधारयः' / भव्याम्भोजविवोधने एकतरणिः भव्या० 'तत्पुरुषः' / तत्सम्बोधनं हे भव्या० / कर्मणां आवली कर्मावली 'तत्पुरुपः' / विस्तारिणी चासौ