________________ श्रीऋषभजिनस्तुतयः // ॐ ऐं नमः // सुविहितमण्डन - श्रीशोभनमुनीश्वरप्रणीता // स्तुतिचतुर्विंशतिका // (टीकापञ्चकेनाऽवचूरिषष्ठेन च समलङ्कृता) 1. श्रीऋषभजिनस्तुतयः अथ श्रीनाभिनन्दननुतिः भव्याम्भोजविबोधनैकतरणे! विस्तारिकर्मावली.. रम्भासामज ! नाभिनन्दन ! महानष्टापदाभासुरैः / भक्त्या वन्दितपादपद्म! विदुषां सम्पादय प्रोज्झितारम्भासाम ! जनाभिनन्दन ! महान्, अष्टापदाभासुरैः // 1 // - शार्दूलविक्रीडितम् (12,7)