________________ 198 शोभनस्तुति-वृत्तिमाला ... शुभ्रा श्रीशान्तिदेवी जगति जनयतात् कुण्डिका भाति यस्याः सन्नालीका सदाप्ता परिकरमुदिता साक्षमाला भवन्तम् // 4 // 48 // _ - सग० . ज० वि०-रक्षःक्षुद्रेति / हे भव्य ! प्राणिन् ! सा श्रीशान्तिदेवता, अयं श्रीशब्द: पूज्यत्वसूचकः, भवन्तं-त्वां जगति-भुवने सदा-नित्यं 'क्षमालाभवन्तं' क्षमा-शान्तिः तस्या लाभः-प्राप्तिः स विद्यते यस्य स क्षमालाभवान् तथाविधं जनयतात्-कुर्वीत इति क्रियाकारकप्रयोगः / अत्र ‘जनयतात्' इति क्रियापदम् / का कर्जी ? 'श्रीशान्तिदेवी' / कं कर्मतापपन्नम् ? 'भवन्तम्' / कथंभूतम् ? 'क्षमालाभवन्तम्' / कस्मिन् ? 'जगति' / कथम् ? 'सदा' / श्रीशान्तिदेवी कथंभूता ? 'रक्षःक्षुद्रग्रहादिप्रतिहतिशमनी' रक्षांसि-राक्षसाः क्षुद्राः-शाकिनीप्रभृतयः ग्रहाः-शनैश्चरादयः आदिशब्दात् भूपालव्यालकालभूतादयस्तेभ्यः प्रतिहतिः-उपघातः तस्याः शमनी-विनाशिनी / पुनः कथंभूता ? 'वाहितश्वेतभास्वत्सन्नालीका' श्वेतम्-उज्ज्वलं भास्वत्-दीप्यमानं सत्-शोभनं नालीकं-कमलं वाहितं-वाहनीकृतं श्वेतभास्वत्सन्नालीकं यया सा तथा / पुनः कथंभूता ? ‘प्तापरिकरमुदिता' प्तापरिकरः-जटामण्डलं तेन मुदिता-हृष्टा / पुनः कथं० ? 'शुभ्रा' शुक्लवर्णा / पुनः कथं० ? 'सन्नालीका' सन्नम् अवसादं गतम् अलीकम्-असत्यं यस्याः सा तथा / पुनः कथं० ? 'सदाप्ता' सतां-साधूनाम् आप्ता-अविप्रतारिका / सेति तच्छब्दसहचारित्वाद् यच्छब्दघटनामाह-यस्याः-शान्तिदेव्याः ‘परिकरं' करं-हस्तं लक्षीकृत्य करे इत्यर्थः, कुण्डिका-कमण्डलुः भाति-शोभते / अत्रापि ‘भाति' इति क्रियापदम् / का की ? 'कुण्डिका' / कथम् ? 'परिकरम्' / कस्याः ? 'यस्याः' / कुण्डिका कथंभूता ? 'उदिता' उदयं प्राप्ता / पुनः कथंभूता ? 'साक्षमाला' अक्षावलीसमेता / एते द्वे विशेषणे श्रीशान्तिदेव्या वा व्याख्यायते / / . अथ समासः-रक्षांसि च क्षुद्राश्च ग्रहाश्च रक्षःक्षुद्रग्रहाः ‘इतरेतरद्वन्द्वः' / रक्षःक्षुद्रग्रहा आदौ येषां ते रक्षः० 'बहुव्रीहिः' / रक्षःक्षुद्रग्रहादिभ्यः प्रतिहतिः रक्षः० 'तत्पुरुषः' / रक्षःक्षुद्रग्रहादिप्रतिहतेः शमनी रक्षःक्षुद्र० 'तत्पुरुषः' / भास्वच्च तत् सच्च भास्वत्सत् ‘कर्मधारयः' / भास्वत्सच्च तन्नालीकं च भास्वत्स० 'कर्मधारयः / श्वेतं च तत् भास्वत्सन्नालीकं च श्वेतभा० 'कर्मधारयः' / वाहितं श्वेतभास्वत्सन्नालीकं यया सा वाहितश्वेत० 'बहुव्रीहिः' / प्तायाः परिकरः तापरिकरः 'तत्पुरुषः' / तापरिकरेण मुदिता ताप० 'तत्पुरुषः' / क्षमाया लाभः क्षमालाभः 'तत्पुरुषः' / क्षमालाभोऽस्यास्तीति क्षमालाभवान् 'बहुव्रीहिः' / तं क्षमा० / शान्तिश्चासौ देवी च शान्तिदेवी ‘कर्मधारयः' / श्रियोपलक्षिता शान्तिदेवी श्रीशान्ति० 'तत्पुरुषः' / सन्नम् अलीकं यया सा सन्नालीका ‘बहुव्रीहिः' / सतामाप्ता सदाप्ता तत्पुरुषः / 1. आगमदृष्ट्याऽयुक्तमिदम्, श्रमणैर्देवता कथम्पूजनीया देवताया अविरतिधरत्वाद, प्रस्तुतायाः स्तुतेरावश्यकक्रियायां श्रमणैरपि पठनीयत्वादत्र 'श्री'शब्दः शान्तिदेवताया ऋद्धिसूचक इत्युचितम्, एवं टीकान्तरेऽपि समाधेयम् /