________________ श्रीवासुपूज्यजिनस्तुतयः अमानाः अमदना(अमदा)श्च ते नराश्चेति तैः नत !-वन्दित ! / 'वसुधासार !' इति / वसुधायां-पृथिव्यां सारः-प्रधानो यस्तस्यामन्त्रणम् / एतानि भगवतः सम्बोधनपदानि / / इति तृतीयवृत्तार्थः / / 47 / / ध० टीका-नित्यमिति / 'नित्यं' सर्वदा / ‘हेतूपपत्तिप्रतिहतकुमतप्रोद्धतध्वान्तबन्धा' हेतवोवस्तुगमकानि लिङ्गानि उपपत्तयः-युक्तयः हेतुभिश्च उपपत्तिभिश्च हेतूनां वा उपपत्तिभिः प्रतिहतःप्रतिषिद्धः कुमतानि एव प्रोद्धतध्वान्तबन्धः-प्रोद्दामतिमिरग्रन्थिर्यया सा / ‘अपापाया' अपगता अपायाविघाता यस्याः सा / ‘आसाद्यमाना' प्राप्यमाणा / 'अमदन !' मदनरहित ! / 'तव' ते / 'सुधासारहृद्या' सुधासारः-अमृतवृष्टिः स इव हृद्या-हृदयंगमा / ‘हितानि' पथ्यानि / 'वाणी' वाक् / 'निर्वाणमार्गप्रणयिपरिगता' निर्वाणमार्गः सम्यग्दर्शन(ज्ञान)चारित्ररूपः तत्र प्रणयः-परिचयो येषां तैः परिगतापरिकरिता / 'तीर्थनाथ .!' जिन ! / 'क्रियात मे' विधेयात् मम / 'अपापायासाद्यमानामदनत !' पापं च आयासश्च आदिर्येषां ते दोषा न विद्यन्ते येषां यतीनां ते अपापायासादयः, तेच ते अमानाश्च ते अमदाश्च ते अपापायासाद्यमानामदास्तैर्नत-प्रणत ! / 'वसुधासार !' वसुधायाः-भुवः सार-उत्कृष्ट ! / 'हृदि' चेतसि / 'आहितानि' स्थापितानि / हे तीर्थनाथ ! तव वाणी आसाद्यमाना सती सुधासारहृद्या हितानि मे क्रियादिति सम्वन्धः / / 47 / / अवचूरिः नित्यं-सर्वदा हे तीर्थनाथ ! तव वाणी मम हितानि क्रियात् / कथंभूता ? हेतवो-वस्तुगमकलिङ्गानि, उपपत्तयो-युक्तयः, यद्वा हेतूनामुपपत्तयस्ताभिर्विध्वस्तः कुशासनप्रोद्दामतमोग्रन्थिर्यया / अपगता अपाया-अनर्था यस्याः सा / आसाद्यमाना-प्राप्यमाणा / अपापायैरासाद्यमाना वा / हे अमदन !-अकाम ! | सुधाया अमृतस्यासारो-वेगवान् वर्षस्तद्वन्मनोहरा / श्रूयमाणाऽमृतमिव हृदयंगमेत्यर्थः / मोक्षपथस्नेहलैः स्वीकृता / न विद्यते पापं चायासश्चादिर्येषां तेऽपापायासादयस्ते च तेऽमानाश्च नरास्तैर्वन्दित ! / हे वसुधासार !-पृथिव्युत्कृष्ट ! / आहितानि-स्थापितानि / क्व ? / हृदि-मनसि / / 47 / / श्रीशान्तिदेव्याः स्तुतिः रक्षःक्षुद्रग्रहादिप्रतिहतिशमनी वाहितश्वेतभास्वत् ___ सन्नालीका सदा तापरिकरमुदिता सा क्षमालाभवन्तम् / 1. . 'शमिनी' इति पाठान्तरम् /